________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. द्वित्वस्य विधौ दीर्घविधौ ‘संयोगस्यादौ स्कोलुक् ' इति स्क्लुक्वजितेऽसद्विधौ च स्वरस्यादेशः स्थानीव न स्यात् / इति स्थानिवद्भावनिषेधः। 59 तृतीयस्तृतीयचतुर्थे // 13 // 49 // धुटां स्थाने तृतीये चतुर्थे च परे स्थानिपत्यासन्नस्तृतीयः स्यात् / एकवर्गीया मिथः स्वा इति पूर्वधकारस्य दकारः। 60 पदस्य // 2 / 1 / 89 / / पदान्ते वर्तमानस्य संयोगस्य लुगन्तादेशः स्यात् , स च परे स्यादिविधौ च पूर्वस्मिन्नसन् द्रष्टव्यः / इति यलोपे प्राप्ते / 'असिद्ध बहिरङ्गमन्तरङ्गे' इति न्यायेन अन्तरङ्गे लोपे कर्तव्ये बहिरङ्गस्य यकारस्यासिद्धत्वान भवति / 61 ततोऽस्याः // 13 // 34 // ततोऽन्वर्गात् परस्या अन्तस्थायाः स्थाने द्वे वा स्तः / इति यकारस्यापि द्वित्वम् / तदिह धकारयकारयोवित्वविकल्पाञ्चत्वारि रूपाणि / एकधमेकयम् / द्विधं द्वियम् / द्विधमेकयम् / एकथं द्वियम् / दध्यत्र / दद्ध्य्यत्र / दद्ध्यत्र / दध्य्यत्र / मवत्र / पित्रंशः / लित् / इवर्णादेरित्यत्र पञ्चमीन्यारव्याने दधियत्र, मधुवत्रेत्यादि / __62 पुत्रस्यादिन्पुत्रादिन्याक्रोशे // 1 // 3 // 38 // आदिनशब्दे पुत्रादिन्शब्दे च परे पुत्रशब्दसंबन्धिनस्तकारस्याक्रोशविषये द्वे न स्तः / पुत्रादिनी त्वमसि पापे / पुत्रपुत्रादिनी भव / अदीर्घादिति विकल्पे प्राप्ते प्रतिषेधः / आदिन्पुत्रादिनीति किम् / पुत्रहती / पुत्रहती / पुत्रजग्धी / पुत्रजग्धी। आक्रोश इति किम् / तत्त्वकथने द्वित्वं भवत्येव / पुत्रादिनी शिशुमारी / पुत्रादिनीति वा / पुत्रपुत्रादिनी नागी / पुत्रपुत्रादिनीति वा। 63 दिर्हस्वरस्यानु न वा // 1 // 3 // 31 // स्वरेभ्यः परौ यौ रेफहकारौ ताभ्यां परस्याहस्वरस्य-रेफहकारस्वरवर्जितस्य वर्णस्य स्थाने द्वेरूपे वा स्तः अनुयदन्यत् कार्य प्रामोति तस्मिन् कृते पश्चात् इत्यर्थः। अर्कः ।अर्कः। ब्रहम्मा ।ब्रह्मा। अर्हस्वरस्येति किम् / पद्मदः / अर्हः / करः / स्वरेभ्य इत्येव / अभ्यते / न्हुते / अन्विति किम् / प्रोणुनाव / अत्र द्विवंचने कृते यथा स्यात् / 64 अञ्वर्गस्थान्तस्थातः // 1 // 3 // 33 // अन्तस्थातः परस्य अकारवर्जितस्य वर्गस्य स्थानेऽनु द्वे वा स्तः। उल्का / उल्का / वल्म्मीकः / वल्मीकः / वृक्षव् करोति / वृक्षक् करोति / वर्गस्येति किम् / सव्यतः। अनिति किम् / हल्लकारौ / अन्नस्थात इति किम् / भवान्मधुरः /