________________ अर्क। . . सिद्धहैमबृहत्प्रक्रिया. [स्वरसन्धि 13.65 शिटः प्रथमद्वितीयस्थ // 1 // 3 // 35 // शिटः परयोः प्रथमद्वितीययोः स्थाने द्वे वा स्तः / त्वं करोषि / त्वं करोषि / त्वं क्खनसि / त्वं खनसि / शिट इति किम् / भवान् करोति / प्रथमद्वितीयस्येति किम् / आस्यम् / अनुनासिकादप्यादेशरूपात केचिद्विच्छन्ति / *त्वञ्छात्रः त्वच्छात्रः / 66 ततः शिटः // 1 // 3 // 36 // ततः प्रथमद्वितीयाभ्यां परस्थ शिटः स्थाने द्वे वा स्तः। तच्श्शेते / तच शेते / तत इति किम् / भवान् साधुः। शिट इति किम् / मनाति / 67 न रात् स्वरे // 1 / 2 / 37 // रात् परस्य शिटः स्वरे परे द्वे न स्तः / दर्शनम् / दिर्हेति विकल्पे प्राप्त प्रतिषेधः / रादिति किम् / तच्श्शेते / स्वर इति किम् / कर्यते / शिट इत्येव / अर्कः। 68 एदैतोऽयाय // 1 / 2 / 23 // एकारैकारयोः स्थाने खरे परे यथासंख्यम् अम् आय् इत्येतावादेशौ स्याताम् / नयनम् / नायकः / अस्व इति इवर्णादिसंबद्धं तनिवृत्तौ निवृत्तम् / तेन स्वेऽपि भवति / वृक्षयेव / रायैन्द्री / स्वर इत्येव / जले पझम् / रैधृतिः। 69 ओदौतोऽवा // 1 / 2 / 24 // ओकारौकारयोः स्थाने स्वरे परे यथासंख्यम् अव् आव् इत्येतावादेशौ स्याताम् / लवनम् / लावंकः / स्वर इत्येव / गोशृङ्गम् / नौकाष्ठम् / ... 70 व्यक्ये // 1 / 2 / 26 // ओकारौकारयोः स्थाने क्यवर्जिते यकारादौ प्रत्यये परे यथासंख्यमव् आव् इत्येतावादेशौ स्याताम् / गव्यति / नाव्यति / यीति किम् गोभ्याम् / नौभ्याम् / अक्य इति किम् / उपोयते / औयत। क्यवर्जनाद यकारादिः प्रत्ययो गृह्यते, तेनेह न / गोयूतिः / नौयानम् / कथं गव्यूतिः क्रोशद्वयम् / क्रोशयोजनादिवदव्युत्पन्नः संज्ञाशब्दोऽयम् / गवां यूतिर्गव्यतिरिति व्युत्पत्तिपक्षे तु पृषोदरादित्वाद् भविष्यति / शरव्यमिति तु शरसमानार्थात् शरुशब्दादुवर्णान्तलक्षणे ये, शरान् व्ययतीति का डे भविष्यति / . .71 क्षय्यजय्यौ शक्तौ // 4 / 3 / 90 // सि जि इत्येतयोः शक्तौ गम्यायां यमत्यसेऽयन्तादेशो निपात्यते / निपातनफलं ह्येतत् * त्वम् छात्र इति स्थिते तो मुम इत्यनुनासिको अकारः / ततः छस्य द्वित्वे अघोषे प्रथम इति छस्य चः।