SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् सिद्धहैमबृहत्प्रक्रिया. -- अकृतस्य क्रिया चैव प्राप्तेर्वाधनमेव च / अधिकार्थविवक्षा च त्रयमेतन्निपातनात् // क्षेतुं शक्यः क्षय्यो व्याधिः / जेतुं शक्यो जय्यः शत्रुः / शक्ताविति किम् / अर्हेक्षेयम् / जेयम् / ___72 क्रय्यः क्रयार्थे / / 4 / 3 / 91 // क्रीणातेर्यप्रत्ययेऽयन्तादेशो निपात्यते क्रयार्थे-क्रयाय चेत् प्रसारितोऽभिधेयो भवति / क्रय्यो गौः / क्रयार्थ इति किम् / क्रेयं नो धान्यम् , न चास्ति प्रसारितम् / . 73 स्वरे वा // 1 / 3 / 24 // अवर्णभोभगोऽयोभ्यः परयोः पदान्ते वर्तमानयोर्वकारयकारयोः खरे परे लुग्वा स्यात् स चासन्धिः / पट इह। पटविह। तआहुः। तयाहुः / तस्मा इदम् / तस्मायिदम् / वृक्षा इह / वृक्षाविह। - 74 इतावतो लुक् // 7 / 2 / 146 // अव्यक्तानुकरणस्यानेकखरस्य योऽत् इत्ययं शब्दस्तस्य इतिशब्दे परे लुक् स्यात् / पटत् इति पटिति / अव्यक्तानुकरणस्येत्येव / जगदिति / अनेकखरस्येत्येव / छत् इति छदिति / अत इति किम् / मरुत् इति मरुदिति / इताविति किम् / पटदत्र / कथं घटदिति गंभीरमंबुदैनंदितम् , चकदिति तडितापि च कृतमिति च / दकारान्तावेतौ द्रष्टव्यौ। 75 न द्वित्वे // 7 / 2147 // अव्यक्तानुकरणस्यानेकखरस्य द्वित्वे कृते इतिशब्दे परे योऽत् शब्दस्तस्य लुग् न स्यात् / 76 धुटस्तृतीयः // 2 / 1176 // पदान्ते वर्तमानानां धुटां तृतीयः स्यात् / पटत्पटदिति / वीप्सायां द्वित्वम् / द्वित्वे इति किम् / पटिति / कथं चटच्चटिति / नात्र द्वित्वमपि तु समुदायानुकरणमिति भवति। 77 तो वा // 72148 // द्वित्त्वे सति अव्यक्तानुकरणस्यानेकस्वरस्य योऽच्छब्दस्तस्य संबन्धिनस्तकारस्येतौ परे लुग् वा स्यात् / पटत्पटेति / 78 एदोतः पदान्तेऽस्य लुक् // 12 // 27 // एदोद्भ्यां पदान्ते वर्तमानाभ्यां परस्याकारस्य लुक् स्यात् / तेऽत्र / पटोऽत्र / एदोत इति किम् / दध्यत्र / पदान्त इति किम् / नयनम् / अस्येति किम् / तयिह / पटविह / - 79 गोर्नाम्न्यकोऽक्षे // 1 / 2 / 28 // गोरोकारस्य पदान्ते वर्तमानस्य अक्षशब्दे परे संज्ञायां गम्यमानायामव इत्ययमादेशः स्यात् / गोरक्षीव-अमाण्यात्वात्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy