SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [ असन्धि समासान्तेऽति गवाक्षो वातायनः / नाम्नीति किम् / गवामक्षाणि गोऽक्षाणि / गो अक्षाणि / कश्चित्त्वसंज्ञायां गवाक्षाणीत्यपि इच्छति / 80 स्वरे वाऽनक्षे ॥१।२।२९॥गोरोकारस्य पदान्ते वर्तमानस्य स्वरे परेऽव इत्ययमादेशो वा स्यात् अनक्षे–स चेत् स्वरोऽक्षशब्दस्थो न भवति / गवाग्रम् / पक्षे यथाप्राप्तम् / गोऽयम् ।गो अग्रम् / स्वर इति किम् / गोकुलम् / अनक्ष इति किम् / गोऽक्षम् / गो अक्षम् / पदान्त इत्येव / गवि / ओत इत्येव / चित्रग्वर्थः गोरित्येव / घोऽयम् / हे चित्रगवुदकमित्यत्र तु गोशदस्य लाक्षणिकत्वात् लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणान्न भवति। 81 इन्द्रे // 1 / 2 / 30 // गोरोकारस्य पदान्ते वर्तमानस्येन्द्रस्थे स्वरे परेऽव इत्ययमादेशः स्यात् / गवेन्द्रः। इति श्रीसिद्धहैमबृहत्प्रक्रियायां स्वरसन्धिप्रकरणं समाप्तम् // // अथाऽसंधिप्रकरणम् // 82 वाऽत्यसंधिः // 1 // 2 // 31 // गोरोकास्य पदान्ते वर्तमानस्यात्यकारे स्वरे परेऽसंधिः-प्रकृतिभावो वा स्यात् / गो अग्रम् / पक्षे यथाप्राप्तम् / गोऽयम् / गवाग्रम् / अतीति किम् / गवेङ्गितम् / गोरित्येव / योऽयम् / ओत इत्येव / चित्रग्वग्रम् / हे चित्रगोऽयमित्यत्र तु लाक्षणिकत्वान्न भवति / पदान्त इत्येव / गौरिवाचरति गवति / 83 ह्रस्वोऽपदे वा // 1 / 2 / 22 // इउऋलुवर्णानामस्वे खरे परे हस्खो वा स्यात् अपदे-न चेत्तौ निमित्तनिमित्तिनावेकत्र पदे भवतः / नदि एषा / नद्येषा / मधु अत्र / मध्वत्र / पर्जन्यवल्लक्षणप्रवृत्तिरिति न्यायाद् इस्वस्यापि इस्वः / इस्वविधान सामर्थ्यादसंधिः / इवर्णादेरित्येव / मुनयाचर / स्वर इत्येव / नदी वहति / अस्व इत्येव / दधीदम्। 84 प्लुतोऽनितौ / 1 / 2 / 32 // इतिशब्दवर्जिते स्वरे परे प्लुतः संधिभाग् न स्यात् / देवदत्त 3 अत्र न्वसि / दुरादामन्त्र्यस्येत्यनेनात्र प्लुतः / अनिताविति किम् / सुश्लोकेति / केचित्तु इतिशब्दे विकल्पमिच्छन्ति / सुश्लोक 3 इति / सुश्लोकेति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy