________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया.. ८५संमत्यसूयाकोपकुत्सनेष्वाद्यामन्यमादौ स्वरेष्वन्त्यश्च प्लुतः / / 7 / 4 / 89 // कार्येष्वाभिमत्य संमतिः, पूजनं वा / परगुणासहनमसूया / कोपः क्रोधः / निन्दा कुत्सनम् / एते प्रयोक्तृधर्मा नाभिधेयधर्माः / एतेष्वर्थेषु वर्तमानस्य वाक्यस्यादिभूतमामन्त्र्यमामन्त्रणीयार्थ पदं द्विरुच्यते / तत्र द्विर्वचने आदौपूर्वोक्तौ स्वराणां मध्ये योऽन्त्यस्वरः स प्लुतो वा स्यात् / संमत्यसूयाकोपकुत्सनेविति बहुवचनात् द्विवचने विकल्पो न संबध्यते / संमतौ-माणवक 3 माणवक माणवक माणवक उदारः खल्वसि / अमूयायाम्-माणवक 3 माणवक माणवक माणवक रिक्तं ते आभिरूप्यम् / कोपे-माणवक 3 माणवक माणवक माणवक इदानीं ज्ञास्यसि जाल्म / कुत्सने-शक्तिके 3 शक्तिके शक्तिके शक्तिके रिक्ता ते शक्तिः। संमत्यनुयाकोपकुत्सनेष्विति किम् / देवदत्त गामभ्याज शुक्लां दण्डेन / आदीति किम् / शोभनः खल्वसि माणवक / आमन्त्र्यमिति किम् / उदारो देवदत्तः / आदाविति किम् / उत्तरोक्तौ मा भूत् / स्वरेष्विति किम् / व्यंजनान्तस्यापि यथा स्यात् / अन्त्य इति किम् / आदिमध्यो वा मा भूत् / चकारो द्वित्वस्यानुकर्षणार्थः। तथा च चानुकृष्टत्वादुत्तरत्र नानुवर्तते / 86 भर्त्सने पर्यायेण // 7 / 4 / 90 // भर्त्सनं कोपेन दण्डाविष्करणम् / तत्र द्विवचनं सिद्धमेव, प्लुतार्थ आरंभः। भर्त्सने वर्तमानस्य वाक्यस्य यदामन्त्र्यं पदं तद् द्विरुच्यते / तत्र पर्यायेण-पूर्वस्यामुत्तरस्यां वोक्तौ स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् / चौर 3 चौर, चौर चौर 3, चौर चौर बंधयिष्यामि त्वाम् / 87 त्यादेः साकांक्षस्याङ्गेन // 74 / 91 // वाक्यस्य स्वरेष्वन्त्यः प्लुतो वेत्यनुवर्तते भर्त्सन इति च / भर्त्सने वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याधन्तस्य पदस्य वाक्यान्तराकांक्षस्य अङ्ग इत्यनेन निपातेन युक्तस्य संबंधी प्लुतो वा स्यात् / अङ्ग कूज 3 अङ्ग कूज इदानीं ज्ञास्यसि जाल्म। त्यादेरिति किम् / अङ्ग देवदत्त मिथ्या वदसि / साकांक्षस्येति किम् / अङ्ग पच। नैतदपरमाकाक्षति / अङ्गेनेति किम् / देवदत्त कूजेदानी ज्ञास्यसि जाल्म / भर्त्सन इत्येव / अङ्गाधीष्व मोदकं ते दास्यामि। 88 क्षियाशी प्रेषे // 7 / 4 / 92 / / लिया आचारभ्रेषः / आशीः प्रार्थनाविशेषः / प्रैषोऽसत्कारपूर्विका व्यापारणा / एतेषु वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य पदस्य वाक्यान्तराकांक्षस्य संबंधी प्लुतो वा स्यात् / क्षियायाम्