Book Title: Gnata Dharmkathangasutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 18
________________ ताधर्म थाइम् ११८ ॥ लिखितं चित्रकर्म यत्र तत्तथा तस्मिन् तथा नाना- विधानां जातिभेदेन पञ्चवर्णानां मणिरत्नानां सत्कं कुट्टिमतलं-मणिभूमिका यस्मिंस्तत्तथा तत्र तथा पद्यै:पद्माकारैरेवं लताभिरशोकलताभि: पद्मलताभिर्वा मृणालिकाभिः पुष्पवल्लीभि:- पुष्पप्रधानाभिः पत्रवल्लिभिः तथा वराभि: पुष्पजातिभिः—मालतीप्रभृतिभिश्चित्रितमुल्लोकतलं – उपरितनभागो यस्मिन् तत्तथा तत्र, इह च प्राकृतत्वेन 'उल्लोयचित्तियतले' इत्येवं विपर्ययनिर्देशो द्रष्टव्य इति, अथवा पद्यादिभिरुल्लोकस्य चित्रितं तलं - अधोभागो यस्मिन्निति, तथा वन्द्यन्त इति वन्दना - मङ्गल्या: ये वरकनकस्य कलशाः सुष्ठं 'निम्मिय'त्ति न्यस्ताः प्रतिपूजिता:- चन्दनादिचर्चिताः सरसपद्मा:- सरसमुखस्थगनकमला: शोभमाना द्वारभागेषु यस्य पाठान्तरापेक्षया चन्दनवरकनकॅकलशैः सुन्यस्तैस्तथा प्रतिपुञ्जितै:- पुञ्जीकृतैः सरसपद्यै: शोभमाना द्वारभागा यस्स तत्तथा तस्मिन् तथा प्रतरकाणि-स्वर्णादिमया आभरणविशेषास्तत्- प्रधानैर्मणिमुक्तानां दामभिः - स्रग्भिः सुष्ठ विरचिता द्वारशोभा यस्य तत्तथा तस्मिन्, तथा सुगन्धिवरकुसुमैर्मृदुकस्य – मृदोः पक्ष्मलस्य च - पक्ष्मवतः शयनस्य - तूल्यादिशनीयस्य यः उपचार - पूजा उपचारो . वा स विद्यते यस्मिन् मण इत्यस्य मत्वर्थीयत्वात् तत् सुगन्धिवरकुसुममृदुपक्ष्मलशयनीयोपचारवत्तच्च यद् हृदयनिर्वृतिकरं च मन: स्वास्थ्यकरं तत्तथा तस्मिन्, तथा कर्पूरश्च लवङ्गानि च फलविशेषाः मलयचन्दनं च-पर्वतविशेषप्रभवं श्रीखण्डं कालागुरुश्च – कृष्णागरुः प्रवरकुन्दुरुक्कं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिल्हकं धूपश्च गन्धद्रव्यसंयोगज इति द्वन्द्व, एतेषां वा संबन्धी यो धूपः तस्य दह्यमानस्य सुरभिर्यो मघमघायमानः - अतिशयवान् गन्धः उद्भूतः उद्भूतः तेनाभिरामं - अभिरमणीयं यत्तत्तथा तस्मिन् तथा सुष्ठ गन्धवराणां प्रधानचूर्णानां गन्धो यस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तस्मिन् तथा गंधवर्त्तिः- गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धवर्तिस्तद्भूते-सौरभ्यातिशयात्तत्कल्पे, तथा मणिकिरणप्रणाशितान्धकारे, किं बहुना वर्णकेन ?” वर्णकसर्वस्वमिदं द्युत्या गुणैश्च सुरवरविमानं विडम्बयति जयति यद्वरगृहकं तत्तथा तत्र, तथा तस्मिन् तादृशे शयनीये सहालिङ्गनवर्त्त्या शरीरप्रमाणोपधानेन यत्तत्सालिङ्गनवर्त्तिकं तत्र, 'उभओ विव्वोयणे 'त्ति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य 'बिब्बोयणे 'त्ति उपाधाने यत्र तत्तथा तस्मिन्, 'दुहओ'त्ति उभयतः उन्नते मध्ये नतं च तन्निम्नत्वाद्गभीरं च महत्त्वान्नतगम्भीरं अथवा मध्येन च भागेन तु गम्भीरे-अवनते गझपुलिनवालुकायाः अवदातः - अवदलनं पादादिन्यासेऽधोगमनमित्यर्थ: तेन 'सालिसए'त्ति सदृशकमति नम्रत्वाद्यत्तत्तथा तत्र दृश्यते च हंसतूल्यादिष्वयं न्याय इति । तथा 'उयचिय'त्ति परिकर्मितं यत् क्षौमं दुकूलं - कार्पासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टः- एकः शाटक: स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा तत्र, तथा आस्तरको मलको नवतः कुशतो लिम्बः सिंहकेसरश्चैते आस्तरणविशेषास्तैः प्रत्यवस्तृतम् - आच्छादितं यत्तत्तथा, इह चास्तरको लोकप्रतीत एव मलककुशक्तौ तु रुढिगम्यौ नवतस्तु ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो - बालोरभ्रस्योर्णायुक्ता कृत्तिः सिंहकेसरो - जटिलकम्बल; तथा सुष्ठु विरचितं शुचि वा रचितं रजस्त्राणं जंबू प्रश्न सू. ५ ॥१८ ॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 320