________________
ताधर्म
थाइम्
११८ ॥
लिखितं चित्रकर्म यत्र तत्तथा तस्मिन् तथा नाना- विधानां जातिभेदेन पञ्चवर्णानां मणिरत्नानां सत्कं कुट्टिमतलं-मणिभूमिका यस्मिंस्तत्तथा तत्र तथा पद्यै:पद्माकारैरेवं लताभिरशोकलताभि: पद्मलताभिर्वा मृणालिकाभिः पुष्पवल्लीभि:- पुष्पप्रधानाभिः पत्रवल्लिभिः तथा वराभि: पुष्पजातिभिः—मालतीप्रभृतिभिश्चित्रितमुल्लोकतलं – उपरितनभागो यस्मिन् तत्तथा तत्र, इह च प्राकृतत्वेन 'उल्लोयचित्तियतले' इत्येवं विपर्ययनिर्देशो द्रष्टव्य इति, अथवा पद्यादिभिरुल्लोकस्य चित्रितं तलं - अधोभागो यस्मिन्निति, तथा वन्द्यन्त इति वन्दना - मङ्गल्या: ये वरकनकस्य कलशाः सुष्ठं 'निम्मिय'त्ति न्यस्ताः प्रतिपूजिता:- चन्दनादिचर्चिताः सरसपद्मा:- सरसमुखस्थगनकमला: शोभमाना द्वारभागेषु यस्य पाठान्तरापेक्षया चन्दनवरकनकॅकलशैः सुन्यस्तैस्तथा प्रतिपुञ्जितै:- पुञ्जीकृतैः सरसपद्यै: शोभमाना द्वारभागा यस्स तत्तथा तस्मिन् तथा प्रतरकाणि-स्वर्णादिमया आभरणविशेषास्तत्- प्रधानैर्मणिमुक्तानां दामभिः - स्रग्भिः सुष्ठ विरचिता द्वारशोभा यस्य तत्तथा तस्मिन्, तथा सुगन्धिवरकुसुमैर्मृदुकस्य – मृदोः पक्ष्मलस्य च - पक्ष्मवतः शयनस्य - तूल्यादिशनीयस्य यः उपचार - पूजा उपचारो . वा स विद्यते यस्मिन् मण इत्यस्य मत्वर्थीयत्वात् तत् सुगन्धिवरकुसुममृदुपक्ष्मलशयनीयोपचारवत्तच्च यद् हृदयनिर्वृतिकरं च मन: स्वास्थ्यकरं तत्तथा तस्मिन्, तथा कर्पूरश्च लवङ्गानि च फलविशेषाः मलयचन्दनं च-पर्वतविशेषप्रभवं श्रीखण्डं कालागुरुश्च – कृष्णागरुः प्रवरकुन्दुरुक्कं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिल्हकं धूपश्च गन्धद्रव्यसंयोगज इति द्वन्द्व, एतेषां वा संबन्धी यो धूपः तस्य दह्यमानस्य सुरभिर्यो मघमघायमानः - अतिशयवान् गन्धः उद्भूतः उद्भूतः तेनाभिरामं - अभिरमणीयं यत्तत्तथा तस्मिन् तथा सुष्ठ गन्धवराणां प्रधानचूर्णानां गन्धो यस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तस्मिन् तथा गंधवर्त्तिः- गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धवर्तिस्तद्भूते-सौरभ्यातिशयात्तत्कल्पे, तथा मणिकिरणप्रणाशितान्धकारे, किं बहुना वर्णकेन ?” वर्णकसर्वस्वमिदं द्युत्या गुणैश्च सुरवरविमानं विडम्बयति जयति यद्वरगृहकं तत्तथा तत्र, तथा तस्मिन् तादृशे शयनीये सहालिङ्गनवर्त्त्या शरीरप्रमाणोपधानेन यत्तत्सालिङ्गनवर्त्तिकं तत्र, 'उभओ विव्वोयणे 'त्ति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य 'बिब्बोयणे 'त्ति उपाधाने यत्र तत्तथा तस्मिन्, 'दुहओ'त्ति उभयतः उन्नते मध्ये नतं च तन्निम्नत्वाद्गभीरं च महत्त्वान्नतगम्भीरं अथवा मध्येन च भागेन तु गम्भीरे-अवनते गझपुलिनवालुकायाः अवदातः - अवदलनं पादादिन्यासेऽधोगमनमित्यर्थ: तेन 'सालिसए'त्ति सदृशकमति नम्रत्वाद्यत्तत्तथा तत्र दृश्यते च हंसतूल्यादिष्वयं न्याय इति । तथा 'उयचिय'त्ति परिकर्मितं यत् क्षौमं दुकूलं - कार्पासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टः- एकः शाटक: स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा तत्र, तथा आस्तरको मलको नवतः कुशतो लिम्बः सिंहकेसरश्चैते आस्तरणविशेषास्तैः प्रत्यवस्तृतम् - आच्छादितं यत्तत्तथा, इह चास्तरको लोकप्रतीत एव मलककुशक्तौ तु रुढिगम्यौ नवतस्तु ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो - बालोरभ्रस्योर्णायुक्ता कृत्तिः सिंहकेसरो - जटिलकम्बल; तथा सुष्ठु विरचितं शुचि वा रचितं रजस्त्राणं
जंबू
प्रश्न
सू. ५
॥१८ ॥