________________
॥ १७ ॥
ये संलापा:- परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, युक्ता-संगता ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारय 'पासाईया' चित्तप्रसादजनिका 'दरिसणिज्जा' यां पश्यच्चक्षुर्न श्राम्यति, 'अभिरूपा' मनोज्ञरूपा 'पडिरूवा' द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथा 'सेणियस्स रन्नो इट्ठा वल्लभा' कांता काम्यत्वात् प्रिया प्रेमविषयत्वात् मणुन्ना सुन्दरत्वात् 'नामधेज्जा' नामधेयवती प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्यं हृदि धरणीयं यस्याः सा तथा, ‘वेसासिया' विश्वसनीयत्वात् 'सम्मया' तत्कृतकार्यस्य सम्मतत्वाद्बहुमता- बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्रं वा 'अणुमया' विप्रियकरणस्यापि पश्चात्मता अनुमता 'भंडकरंडगसमाणा' आभरणकरण्डकसमानोपादेयत्वात् 'तेल्लकेला इव सुसंगोविया' तैल्लकेला - सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेष: स च भङ्गभयाल्लोच(ठ) नभयाच्च सुष्ठ संगोप्यते एवं साऽपि तथोच्यते 'चेलपेडा इव सुसंपरिगिहीया' वस्त्रमज्जुषेवेत्यर्थः 'रयणकरंडगोविव सुसारविया' सुसंरक्षितेत्यर्थः कुत इत्याह, 'मा णं सीयं मा णं उण्हं मा णं दंसा मा णं मसगा मा णं वाला मा णं चोरा मा णं वाइयपित्तियसंभिय-सन्निवाइयविविहरोगायंका फुसंतुत्तिकट्टु सेणिएणं रन्ना सद्धि विउलाई भोगगोगाई भुंजमाणा विहरति ' माशब्दा निषेधार्थाः, णंकारा वाक्यालङ्कारार्था अथवा 'माणं'ति मैनामिति प्राकृतत्वात् व्यालाः श्वापदभुजगाः रोगाः कालसहा: आतङ्काः सद्योघातिनः इतिकट्टु इतिकृत्वा इतिहेतोर्भोगभोगान् अतिशयवद्धोगानिति १ ।
'तए णं'त्ति ततोऽनन्तरं 'तंसि तारिसयंसि 'त्ति यदिदं वक्ष्यमाणगुणं तस्मिंस्तादृशके यादृशमुपचितपुण्यस्कन्धानामङ्गिनामुचितं 'वरघरए 'त्ति संबंध: वासभवने इत्यर्थः कथंभूते- 'षट्काष्ठकं' गृहस्य बाह्यालन्दकं षड्दारुकमिति यदागमप्रसिद्धं, द्वारमित्यन्ये स्तम्भविशेषणमिदमित्यन्ये, तथा लष्टा- मनोज्ञा मृष्टा-मसृणाः संस्थिता - विशिष्टसंस्थानवन्तो ये स्तम्भास्तथा उद्गता-ऊर्ध्वगता स्तम्भेषु वा उद्गता-व्यवस्थिताः स्तम्भोद्गताः प्रवराणां वराः प्रवरवराः - अतिप्रधाना या: शालभज्जिकाः पुत्रिकास्तथा उज्ज्वलानां मणीनां - चंद्रकान्तादीनां कनकस्य रत्नानां कर्केतनादीनां या स्तूपिका- शिखरं, तथा विटङ्ककपोतपाली वरण्डिकाधोवर्त्ती अस्तरविशेषः जालं- सच्छिद्रो गवाक्षविशेष, अर्द्धचन्द्र:- अर्द्धचन्द्राकारं सोपानं निर्यूहकं द्वारपार्श्वविनिर्गतदारु अंतरं - अस्तरविशेष एव पानीयान्तरमिति सूत्रधारैर्यद् व्यपदिश्यते निर्यूहकद्वयस्य यान्यन्तराणि तानि वा निर्यूहकान्तराणि कणकाली–अस्तरविशेषश्चन्द्रसालिका च गृहोपरि शाला एतेषां गृहांशानां या विभक्ति:- विभजनं विविक्तता तया कलितं युक्तं यत्तत्तथा तस्मिन्, 'सरसच्छवाडवडंवसरइए'त्ति स्थाप्यं, कैश्चित् पुनरेवं संभावितमिद - 'सरसच्छ धाउवलवन्नरइए 'ति तत्र सरसेन अच्छेन धातूपलेन पाषाणधातुना गैरिकाविशेषेणित्यर्थः वर्णो रचितो यत्र तत्तथा 'बाहिरओ दूमियघट्टमट्ठे 'त्ति दूमितं धवलितं घृष्टं-कोमलपाषाणादिना अत एव मृष्टं मसृणं यत्तत्तथा तस्मिन्, तथा अभ्यन्तरतः प्रशस्तं - स्वकीय २ कर्मव्यापृतं शुचि- पवित्रं
॥ १७ ॥