Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 525152515252515161525152625051515 भ्रान्तत्वात् नान्यस्य कस्यचिदपि यं प्रतीय प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यप्रति तत्सैन्य प्रदर्शयन्निगूढं द्वेषं द्योतयति एवंच यस्य धर्मक्षेत्र प्राप्यापीदृशी दुष्टबुद्धिस्तस्य का नु तापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादितिभावः // 3 // Reनन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतां मदीयोयः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यतआह अत्र शृराइत्यादिभिस्त्रिभिः न केवलमत्र धृष्टद्युम्नएव शूरः येनोपेक्षणीयता स्यात् किन्तु अस्यां चम्बां अन्यपि बहवः शूराःसन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः शूरानेव विशिनष्टि महेष्वासाइति महान्तोन्यैरप्रधृष्याइष्वासाधनूंषियेषांतेतथा दूरतएव परसैन्यविद्रावणकुशलाइ तिभावः महाधनुरादिमत्त्वेपि युद्धकौशलाभावमाशझ्याह युधि युद्धे भीमार्जुनाभ्यां सर्वसम्प्रतिपन्नपराक्रमाभ्यां समास्तुल्यास्तानेवाह अत्र शूरामहेष्वासाभीमार्जुनसमायुधि ॥युयुधानोविराटश्च द्रुपदश्च महारथः॥१॥ धृष्टकेतुश्वेकितानः काशिराजश्च वीर्यवान्॥पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः॥५॥ युधामन्युश्च विकान्तउत्तमौजाश्च वीर्यवान् // सौभद्रोद्रौपदेयाश्च सर्वएव महारथाः // 6 // युयुधानइत्यादिना महारथ इत्यन्तेन युयुधानः सात्यकिः द्रुपदश्च महारथइत्येकः अथवा युयुधानविराटद्रुपदानां विशेषणं महारथइति धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति पुरुजित्कुन्तिभोजशैय्यानां विशेषणं नरपुंगवइति विक्रांन्तोयुधामन्युः वीर्यवांश्चोत्तमौजाइति द्वौ अथवा सर्वाणि विशेषणानि समुचित्य सर्वत्र योजनीयानि सौभद्रोभिमन्युः द्रौपदेयाश्च द्रौपदीपुत्राः पतिविन्ध्यादयः पञ्च चकारादन्येपि पाण्ड्यराजघटोत्कचप्रभृतयः पञ्चपाण्डवास्त्वतिप्रसिद्धाएवेति न गणिताः येगणिताः सप्तदश अन्यपि तदीयाः सर्वएव महारथाः सर्वेपि महारथाएव नैकोपि रथोर्द्धरथोवा महारथाइल्यतिरथत्वस्याप्युपलक्षणं तल्लक्षण च एकोदशसहस्राणि योधयेद्यस्तु धन्विनाम् शस्त्रशास्त्रप्रवीणश्च महारथइति स्मृतः अमितान्योधयेद्यस्तु सप्रोक्तोतिरथस्तु सः रयस्त्वेकेन योयोद्धा तन्यूनोधरथःस्मृतइति || 4 // 5 // 6 // रररर525152555755166652 For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 410