Book Title: Gahakoso Part 1
Author(s): Satvahan, Madhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 11
________________ गाहाकोसो [१.३W4 ३) उय निच्चलणिफंदा भिसिणीपत्तम्मि रेहइ बलाया। निम्मलमरगयभायणपरिट्ठिया संखसुत्ति व ॥३॥ w5 ४) ताव च्चिय रइसमए महिलाणं विब्भमा विरायति । जाव न कुवलयदलसच्छहाई मउलंति नयणाई ॥४॥ मध्यात् सातवाहनेन विरचितानि सालंकाराणां गाथानाम् । हाल इति सातवाहनस्य कुन्तलाधिपस्य नाम । कविवत्सलत्वात् सत्यामपि शक्ती तदीया एव गाथाः प्रख्यापिताः ॥२॥ ३) पोट्टिसस्स । पश्य निश्चलनिःष्पन्दा बिसिनीपत्रे राजते बलाका । निर्मलमरकतभाजनप्रतिष्ठिता शङ्खशुक्तिरिव ॥] पश्य निश्चलनिःष्पन्दा बिसिनीपत्रे शोभते बलाका निर्मलमरकतभाजनप्रतिष्ठिता शवशुक्किरिव । निश्चला पवनादिपाताभावात् । निःष्पन्दा स्वयं निष्क्रियत्वात् । कल्पितोपमालङ्कारः । काचिजनाकीणे वक्तुमक्षमस्य संकेतं कथयति । अत्र पद्मिनीखण्डनिकटे शून्यं वर्तते, तथा च निश्चला निःष्पन्दा च बलाकीति इङ्गिताकारलक्षितत्वादर्थान्तरस्य सूक्ष्मोऽप्यत्रालंकारः ॥३॥ ४) सालाहणस्स । [तावदेव रतिसमये महिलानां विभ्रमा विराजन्ति । यावन्न कुवलयदलसच्छायानि मुकुलन्ति नयनानि ॥] तावदेव रतिसमये महिलानां विभ्रमा विराजन्ति, यावन्न कुवलयदलसदृशानि मुकुलीभवन्ति नयनानि । विभ्रमा मणितसीत्कृतादयः । विभ्रमाणां मध्ये नयननिमीलितानि विशेष्यन्ते, इति भावः । अथवा नयननिमीलितेभ्यो अनि सर्वे विभ्रमा लभ्यन्ते, इत्यर्थः । अथवा नयननिमीलितेषु जातेषु अन्ये विभ्रमा न भवन्ति, सुरतसुखनिश्चेष्टत्वादबलानाम् । क्षणं रटन्ती रुदती नृत्यन्ती चातिविह्वला । निःसहत्वं तदा याति मुकुलीकृतलोचना ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 305