Book Title: Gahakoso Part 1
Author(s): Satvahan, Madhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
गाहाकोसो
पढमं सयं W.1 १) पसुवइणो रोसारुणपडिमासंकेतगोरिमुहयंदं ।
गहियग्धपंकयं पिव संझासलिलंजलिं नमह ॥१॥ w.3 २) सत्त सयाइं कइवच्छलेण कोडीऍ मज्मयाराओ'।
हालेण विरइयाइं सालंकाराण गाहाणं ॥२॥ ओं नमो जिनाय ।............
इह खलु श्रीसातवाहनकृते गाथाकोशे नानाकविकल्पितासु भिन्नविषयासु अनेकच्छेकोक्तिषु सकलकलाकौशलकुशलोऽपि न गूढप्रभावमुद्भावयितुमलं, किं पुनर्वयम् । तथापि सकलसूरिशास्त्रार्थप्रार्थनोपरोधेन अस्माभिरस्मिन्यथाबुद्धि विवरणं विधास्यत इति । तत्रादौ सकलविघ्नप्रतिबन्धसिद्धिम् अवगुंते भुकामः (अधिगन्तुकामः) कविरयं नमस्कारमकार्षात् ।
१) हालस्य । [पशुपते रोषारुणप्रतिमासंक्रान्तगौरीमुखचन्द्रम् । गृहीतार्धपङ्कजमिव सन्ध्यासलिलाञ्जलिं नमत ॥] पसुवइणो पशुपतेर्महेश्वरस्य संझासलिलंजलिं नमह सन्ध्यासलिलाञ्जलिं नमत । कथंभूतम् । रोसारुणपडिमासंकंतगोरिमुहयंदं कोपपाटलप्रतिबिम्बिताम्बिकावदनेन्दुम् । अतश्च कीदृशम् । गहि नग्धपङ्कयं पिव गृहीतार्धपङ्कजमिव । सन्ध्यावन्दनेन रोषारुणत्वं गौरीमुखचन्द्रस्य ज्ञेयम् । अनेनैव वस्तूपक्षेपरूपेण ईर्ष्याविप्रलम्भशृङ्गारप्रायः प्रबन्धोऽयं विधास्यत इति सूचितं भवति । उत्प्रेक्षा नाम अलङ्कारः । तस्य लक्षणम्-यत्र विशिष्टे वस्तुनि सत्यसदारोप्यते समं तस्य । (वस्त्वन्तरमुपपत्या उत्प्रेक्षा) सा (तु) विज्ञेया ॥१॥
२) [सप्त शतानि - कविवत्सलेन कोट्या मध्यात् । हालेन विरचितानि सालंकाराणां गाथानाम् ।।] सप्त शतानि कविवत्सलेन कोट्याः १w मज्झारम्मि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 305