Book Title: Gahakoso Part 1
Author(s): Satvahan, Madhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 14
________________ - १.११ ] W11 १०) पायरडियस्स पड़णो पट्ठि पुत्ते समारुतम्मि | दढमन्नुदूमियाएँ वि हासो घरिणीइ निक्कंतो ॥१०॥ W12 ११) सच्चं जाणइ ददतुं सरिसम्मि जणम्मि जुज्जए राओ । मरउ, न तुमं भणिस्सं मरणं पि सलाहणिज्जं से ॥ ११ ॥ १०) दुर्गस्वामिन: । [ पादपतितस्य पत्युः पृष्ठं पुत्रे समारोहति । दृढमन्युनाया अपि हासो गृहिण्या निष्क्रान्तः ॥ |] हासो धरिणीइ निक्कतो हासो गृहिण्या निष्क्रान्तः । कीदृश्याः । दढमन्नुदूमियाऍ वि दृढो यो मन्युः तेन दूनायाः पीडिताया अपि । क्व सति । पट्ठि पुत् समारुतम्मि पृष्ठं पुत्रे समारोहति सति । पायवडियस्स पइणो पादपतितस्य पत्युः । स किलानुनयन्नपि गोत्रस्खलनं चकार । तथाभूतस्य च तस्य पशुनिर्विशेषस्य या पुत्रेण पृष्ठारोहणलक्षणविकृतचेष्टा सा अस्या हासहेतुः । हास्योऽपि हासमूलः स्फुटमुत्तममध्यमामाधम प्रकृतिः । विकृताङ्गवेषभाषाव्यापारेभ्यः समुद्भवति ॥ स्खण्डिता नायिका । हासेन व्याजतो मन्दम् इति खण्डिताकोपाङ्गम् । सूक्ष्ममलंकारः ॥ १० ॥ ११) तस्यैव ( दुर्गस्वामिनः ) । [ सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः । म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयं तस्याः ॥] सच्चं जाणइ दट्टु सत्यं जानाति द्रष्टुम् । यतः सरिसम्मि जणम्मि जुज्जए राम्रो सदृशे जने रागो युज्यते । त्वं रूपवान्, सातिरूपवतीत्यर्थः । मरउ न तुमं भणिस्सं यदि च सा त्वामलभमाना म्रियते, म्रियताम् न त्वां भणिष्यामि । किं कारणम् । मरणं पि सलाह णिज्जं से मरणमपि श्लाध्यं तस्याः, यत् त्वदर्थं संपद्यते । अन्ये अन्यथा गाथार्थं योजयन्ति । सत्यं जानाति द्रष्टुं यदसौ त्वय्यनुपमरूपे यूनि अनुरक्ता । एतदुक्तं भवति । द्रष्टुमेव जानाति न पुनरिङ्गिताकारवेदिनी । यतः सदृशे जने युज्यते रागः । अनुरागकृतमत्र सादृश्यम् । रक्ते जनेऽनुरज्यते, १w पुडिं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 305