SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो पढमं सयं W.1 १) पसुवइणो रोसारुणपडिमासंकेतगोरिमुहयंदं । गहियग्धपंकयं पिव संझासलिलंजलिं नमह ॥१॥ w.3 २) सत्त सयाइं कइवच्छलेण कोडीऍ मज्मयाराओ'। हालेण विरइयाइं सालंकाराण गाहाणं ॥२॥ ओं नमो जिनाय ।............ इह खलु श्रीसातवाहनकृते गाथाकोशे नानाकविकल्पितासु भिन्नविषयासु अनेकच्छेकोक्तिषु सकलकलाकौशलकुशलोऽपि न गूढप्रभावमुद्भावयितुमलं, किं पुनर्वयम् । तथापि सकलसूरिशास्त्रार्थप्रार्थनोपरोधेन अस्माभिरस्मिन्यथाबुद्धि विवरणं विधास्यत इति । तत्रादौ सकलविघ्नप्रतिबन्धसिद्धिम् अवगुंते भुकामः (अधिगन्तुकामः) कविरयं नमस्कारमकार्षात् । १) हालस्य । [पशुपते रोषारुणप्रतिमासंक्रान्तगौरीमुखचन्द्रम् । गृहीतार्धपङ्कजमिव सन्ध्यासलिलाञ्जलिं नमत ॥] पसुवइणो पशुपतेर्महेश्वरस्य संझासलिलंजलिं नमह सन्ध्यासलिलाञ्जलिं नमत । कथंभूतम् । रोसारुणपडिमासंकंतगोरिमुहयंदं कोपपाटलप्रतिबिम्बिताम्बिकावदनेन्दुम् । अतश्च कीदृशम् । गहि नग्धपङ्कयं पिव गृहीतार्धपङ्कजमिव । सन्ध्यावन्दनेन रोषारुणत्वं गौरीमुखचन्द्रस्य ज्ञेयम् । अनेनैव वस्तूपक्षेपरूपेण ईर्ष्याविप्रलम्भशृङ्गारप्रायः प्रबन्धोऽयं विधास्यत इति सूचितं भवति । उत्प्रेक्षा नाम अलङ्कारः । तस्य लक्षणम्-यत्र विशिष्टे वस्तुनि सत्यसदारोप्यते समं तस्य । (वस्त्वन्तरमुपपत्या उत्प्रेक्षा) सा (तु) विज्ञेया ॥१॥ २) [सप्त शतानि - कविवत्सलेन कोट्या मध्यात् । हालेन विरचितानि सालंकाराणां गाथानाम् ।।] सप्त शतानि कविवत्सलेन कोट्याः १w मज्झारम्मि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy