________________
गाहाकोसो
[१.३W4 ३) उय निच्चलणिफंदा भिसिणीपत्तम्मि रेहइ बलाया।
निम्मलमरगयभायणपरिट्ठिया संखसुत्ति व ॥३॥ w5 ४) ताव च्चिय रइसमए महिलाणं विब्भमा विरायति ।
जाव न कुवलयदलसच्छहाई मउलंति नयणाई ॥४॥ मध्यात् सातवाहनेन विरचितानि सालंकाराणां गाथानाम् । हाल इति सातवाहनस्य कुन्तलाधिपस्य नाम । कविवत्सलत्वात् सत्यामपि शक्ती तदीया एव गाथाः प्रख्यापिताः ॥२॥
३) पोट्टिसस्स । पश्य निश्चलनिःष्पन्दा बिसिनीपत्रे राजते बलाका । निर्मलमरकतभाजनप्रतिष्ठिता शङ्खशुक्तिरिव ॥] पश्य निश्चलनिःष्पन्दा बिसिनीपत्रे शोभते बलाका निर्मलमरकतभाजनप्रतिष्ठिता शवशुक्किरिव । निश्चला पवनादिपाताभावात् । निःष्पन्दा स्वयं निष्क्रियत्वात् । कल्पितोपमालङ्कारः । काचिजनाकीणे वक्तुमक्षमस्य संकेतं कथयति । अत्र पद्मिनीखण्डनिकटे शून्यं वर्तते, तथा च निश्चला निःष्पन्दा च बलाकीति इङ्गिताकारलक्षितत्वादर्थान्तरस्य सूक्ष्मोऽप्यत्रालंकारः ॥३॥
४) सालाहणस्स । [तावदेव रतिसमये महिलानां विभ्रमा विराजन्ति । यावन्न कुवलयदलसच्छायानि मुकुलन्ति नयनानि ॥] तावदेव रतिसमये महिलानां विभ्रमा विराजन्ति, यावन्न कुवलयदलसदृशानि मुकुलीभवन्ति नयनानि । विभ्रमा मणितसीत्कृतादयः । विभ्रमाणां मध्ये नयननिमीलितानि विशेष्यन्ते, इति भावः । अथवा नयननिमीलितेभ्यो अनि सर्वे विभ्रमा लभ्यन्ते, इत्यर्थः । अथवा नयननिमीलितेषु जातेषु अन्ये विभ्रमा न भवन्ति, सुरतसुखनिश्चेष्टत्वादबलानाम् । क्षणं रटन्ती रुदती नृत्यन्ती चातिविह्वला । निःसहत्वं तदा याति मुकुलीकृतलोचना ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org