Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
द्वितीय खन्ड : व्याश्रयमहाकाव्ये
एकादशः सर्गः ।
उपभुक्तऋतुं देवीमुपभुक्तोथ भूपतिः । जैग्धे जग्धं तदैकस्मिन्नुद्यानान्तर्यया सह ॥ १ ॥
१. अथ सौधगमनानन्तरं भूपतिः कर्णो देवीं मयणल्लामुपभुक्तो रमितवान् । किंभूतां सतीम् । उपभुक्तोतिक्रान्त ऋतुः पुष्पकालो यया ताम् । ऋतुस्नातामित्यर्थः । यया देव्या सहोद्यानान्तलोपवनमध्ये तदोपभोगकाल एकस्मिन्नभिन्ने द्यतेस्मिन्निति जग्धं भोजनपात्रं तत्र जग्धं कर्णेन भुक्तम् । एतेन विशिष्टगर्भाधानहेतुर्मिथोनुरागाति
शय उक्तः
तयोर्ववृत एकत्र पीतं पीतेशितेशितम् ।
आसिते चासितं सृप्तं सृप्ते च प्रीतियोगतः ॥ २ ॥
२. तयोर्दम्पत्योः प्रीर्तियोगतो मिथोनुरागसंबन्धादेकत्राभिन्ने पीते पानपात्रे पीतं जलादिपानं ववृते संजातम् । तथैकत्राशिते भोजनपात्रे - शितं भोजनं तथैकत्रासित आसन आसितं चावस्थानं च तथैकत्र सृप्ते गमनस्थाने सृप्तं च गमनं च ॥
१ रु. २ए जग्धै न०.
३ए मां स.
१ ए सी डी न्तः पु०. २ ए सी 'न्तलीलो. ३ एन्यते. ४ सी भु० ५ सी डी 'थो रा° ६ ए °योगितो. ७ ए सी डी नं प्रव° ८ ए त्रासिते. ९ ए तथेक° १० ए आसित आसितं पाव,

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 674