SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ द्वितीय खन्ड : व्याश्रयमहाकाव्ये एकादशः सर्गः । उपभुक्तऋतुं देवीमुपभुक्तोथ भूपतिः । जैग्धे जग्धं तदैकस्मिन्नुद्यानान्तर्यया सह ॥ १ ॥ १. अथ सौधगमनानन्तरं भूपतिः कर्णो देवीं मयणल्लामुपभुक्तो रमितवान् । किंभूतां सतीम् । उपभुक्तोतिक्रान्त ऋतुः पुष्पकालो यया ताम् । ऋतुस्नातामित्यर्थः । यया देव्या सहोद्यानान्तलोपवनमध्ये तदोपभोगकाल एकस्मिन्नभिन्ने द्यतेस्मिन्निति जग्धं भोजनपात्रं तत्र जग्धं कर्णेन भुक्तम् । एतेन विशिष्टगर्भाधानहेतुर्मिथोनुरागाति शय उक्तः तयोर्ववृत एकत्र पीतं पीतेशितेशितम् । आसिते चासितं सृप्तं सृप्ते च प्रीतियोगतः ॥ २ ॥ २. तयोर्दम्पत्योः प्रीर्तियोगतो मिथोनुरागसंबन्धादेकत्राभिन्ने पीते पानपात्रे पीतं जलादिपानं ववृते संजातम् । तथैकत्राशिते भोजनपात्रे - शितं भोजनं तथैकत्रासित आसन आसितं चावस्थानं च तथैकत्र सृप्ते गमनस्थाने सृप्तं च गमनं च ॥ १ रु. २ए जग्धै न०. ३ए मां स. १ ए सी डी न्तः पु०. २ ए सी 'न्तलीलो. ३ एन्यते. ४ सी भु० ५ सी डी 'थो रा° ६ ए °योगितो. ७ ए सी डी नं प्रव° ८ ए त्रासिते. ९ ए तथेक° १० ए आसित आसितं पाव,
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy