Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 18
________________ प्रास्ताविक किञ्चित् . तत्र सप्तमेऽरे वैशेषिकसूत्र-वाक्य-भाष्य-प्रशस्तमतिटीका-कटन्दीटीकाद्यनुसारेण विस्तरेण वैशेषिकमत निरूप्य उभयोभयनयेन निराकृतम् , उभयाविधि-नियमयोः सामान्य-विशेषयाः भवनमभवन चेत्युभयं वर्णितम् । बौद्धमतानुसारेण अपोहः शब्दार्थो वर्णितः। ऋजुसूत्रदेशोऽयं नयः। सप्तमस्य उभयोभयनयस्य मत निराकुर्वता अष्टमेन उभयनियमनयेन ‘भावाभावौ द्वावपि प्रधानौ, भावः प्रधान विशेष उपसर्जनम् , विशेषः प्रधान भाव उपसर्जनम् , उभयमुपसर्जनम्' इति चतुर्यु विकल्पेषु ‘विशेषः प्रधान भाव उपसर्जनम्' इति स्वमत दर्शितम् । 'शब्दस्य कोऽर्थः' इति विचारणायां भर्तृहरेः भर्तृहयुपाध्यायस्य वसुरातस्य च मत नामग्राह विस्तरेण चर्चितम् । ततः परं 'नाम-स्थापना-द्रव्य-भिन्नलिङ्गवाच्येष्टाकरणाद् भावयुक्तवाची शब्दः' इति सिद्धान्तितमनेन शब्दनयानुसारिणा नयेन दिङ्नागेन तट्टीकाकारैश्च बणि तोऽन्यापोहः महता विस्तरेण उपन्यस्य निराकृतः ।। नयोऽय शब्दनयदेशः । विधिनियमयोर्गुणप्रधानभावेन नियमोऽत्र उपदश्यते । अस्मिश्च अष्टमेऽरेऽरचतुष्टयात्मको नयचक्रस्य द्वितीयो मार्गः समाप्यते । ___अष्टमेऽरे मल्लवादिसूरिभिः बौद्धाचार्यदिङ्नागस्य मत विस्तरेण चर्चितम् । दिङ्नागेन च प्रकरणशतं रचित मिति श्रूयते । प्रायः सर्वेऽपि तस्य ग्रन्थाः संस्कृतभाषायां चिराद् विनष्टाः, तेषु केवलं कतिपयानामेव ग्रन्थानां भोट [Tibetan ] भाषायां चीनभाषायां चानुवादाः पुरातने काले विहिताः सम्प्रति उपलभ्यन्ते । अष्टमेऽरे चर्चित दिङ्नागमत प्रमाणसमुच्चयाख्ये सवृत्तिके तदीये ग्रन्थे भूयसांऽशेन विद्यत इति ज्ञात्वा देवगुरुकृपया भोटभाषामधीत्य दुर्लभतमांश्च भोटभाषामयान् ग्रन्थान् देशान्तरेभ्यो लब्ध्वा भूयसा परिश्रमेण सम्पादितोऽस्याष्टमोऽरः, मोटग्रन्थेभ्यः संस्कृतभाषायां परिवर्तन विधाय प्रमाणसमुच्चयस्य, तद्धृत्तः, जिनेन्द्रबुद्धिविरचिताया विशालामलवत्याश्च तट्टीकाया अनेऽशाष्टिप्पण्यां तत्र तत्रोपन्यस्ता अस्माभिः । ___ न केवल जैनतक ग्रन्थाध्येतृणां, बौद्ध-न्याय-वैशेषिक-मीमांसादिदर्शनाध्येतृणामपि सहिप्पणोऽयमष्टमोऽरो नितान्तमुपयोगी भविष्यतीत्याशास्महे । _अवशिष्टमरचतुष्टयं शीघ्र मुद्रापयित्वा प्रकाशयितुं प्रयत्यते, परमात्मनः कृपया तदपि शीघ्र मुद्रित प्रकाशितं च भवेत् । उपकारस्मरणम् आगमप्रभाकरैः स्व० मुनिराजश्री पुण्यविजयजी महोदयैरेतद्ग्रन्थसम्पादने प्रेरणया बहुविधदुर्लभसामग्रीप्रदानेन एतद्ग्रन्थप्रकाशनब्यवस्थाविधानेन च महत् कार्य" बिहितम् । स्व० एरीख फाउवाल्नर [Prof. Dr. Erich Frauwallner, Vienna, Austria, Europe]पण्डितश्री वासुदेव विश्वनाथ गोखले [ Poona]-पण्डित हिदेनेरी कितागावा [Prof. Dr: Hidenori Kitagawa, Nagoya University, Nagoya, Japan) इत्येमिर्षिषिधभोड Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 403