Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 404
________________ दि. जैन व्रतोद्यापन संग्रह । [३९७. नमस्तेऽनन्तविज्ञान नमस्ते ज्ञानमूर्तये । नमस्ते ज्ञानरूपाय नमस्ते ज्ञानगोचर ॥ नमस्ते निष्कलशम्भो नमस्ते त्रिजगत्पते । नमस्तेऽहेत्सुदेवाय नमस्ते जिनपुङ्गव ॥ नमस्ते सिद्धबुद्धाय नमस्ते नाभिनन्दन । नमस्ते मोक्षलक्ष्मीश नमस्ते शिवदायक ॥ नमस्तेऽचिन्त्यचरित नमस्ते त्रिजगद्गरो । नमस्ते त्रिजगन्नाथ नमस्तेऽन्त्यन्तनिःस्पृह ॥ नमस्ते केवलज्ञान नमस्ते केवलक्षण । नमस्ते परमानन्द नमस्तेऽनन्तविक्रम ॥ एवमानन्दतः स्तुत्वा शक्रः पूर्ववदादरात् । जन्माभिषेककल्याण--क्रियां कृत्वा स्फुटनटेत् ॥ पञ्चाङ्गविनतिकृत्वा चैत्यं पञ्चगुरुंस्तथा । साधुभक्तिभिराराध्य ध्यायेन्मनं यथाविधि ।। अथ जन्माभिषेककल्याणकक्रियायां पूर्वाचार्यानुक्रमेण सकल+ कर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं चैत्यभक्तिकायोत्सर्ग करोम्यहम । ‘णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं । णमो उवज्झायाणं णमो लोए सव्व साहूणं ।' ___इति मन्त्रस्य नववारान जाप कुर्यात् । ( नौ वार णमोकार मंत्रका जाप करे) अढ़ाह दिवेत्यादि-ॐ नमः परमात्मने-थोस्सामीत्यादि सिद्धाः सिद्धि मम दिशन्तु ।

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408