Book Title: Dhyanastav
Author(s): Bhaskarnandi, Suzuko Ohira
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 94
________________ ध्यानस्तवः नयो ज्ञातुरभिप्रायो द्रव्यपर्यायगोचरः । निश्चयो व्यवहारश्च द्वेधा सोर्हस्तवागमे ॥६९॥ द्रव्यं वा यो ऽथ पर्यायं निश्चिनोति यथास्थितिम् । नयश्च निश्चयः प्रोक्तस्ततो ऽन्यो व्यावहारिकः ॥७०॥ अभिन्नकर्तृकर्मादिगोचरो निश्चयो ऽथवा । व्यवहारः पुनर्देव निर्दिष्टस्तद्विलक्षणः ॥ ७१ ॥ द्रव्यार्थ पर्ययार्थाभ्यां पुनर्देव नयो मतः । सर्वे श्रुतविकल्पास्ते ग्राह्यभेदादनेकधा ॥७२॥ जीवादीनां च तत्त्वानां ज्ञानादीनां च तत्त्वतः । लोकसंव्यवहारार्थं न्यासो निक्षेप उच्यते ॥७३॥ स च नामादिभिर्भेदैश्चतुर्भेदो ऽभिधीयते । वाच्यस्य वाचकं नाम निमित्तान्तरवर्जितम् ||७४ || प्रतिमा स्थापना ज्ञेया भूतं भावि च केनचित् । पर्यायेण समाख्यातं द्रव्यं नयविवक्षया ॥ ७५ ॥ पर्यायेण समाक्रान्तं वर्तमानेन केनचित् । द्रव्यमेव भवेद्भावो विख्यातो जिनशासने ॥७६॥ सम्यग्दर्शनविज्ञानचारित्र त्रितयात्मकः । मोक्षमार्गस्त्वया देव भव्यानामुपदर्शितः ||७७|| विपरीताभिमानेन शून्यं यद्रूपमात्मनः । तदेवोत्तममर्थानां तच्छ्रद्धानं हि दर्शनम् ॥७८॥ तन्निसर्गात् पदार्थेषु कस्याप्यधिगमात्तथा । जीवस्योत्पद्यते देव द्वेधैवं देशना तव ॥ ७९ ॥ निसर्गः स्वस्वरूपं स्यात् स्वकर्मोपशमादियुक् । तमेवापेक्ष्य यज्जातं दर्शनं तन्निसर्गजम् ||८०|| Jain Education International For Private & Personal Use Only ५३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140