________________
ध्यानस्तवः
नयो ज्ञातुरभिप्रायो द्रव्यपर्यायगोचरः । निश्चयो व्यवहारश्च द्वेधा सोर्हस्तवागमे ॥६९॥ द्रव्यं वा यो ऽथ पर्यायं निश्चिनोति यथास्थितिम् । नयश्च निश्चयः प्रोक्तस्ततो ऽन्यो व्यावहारिकः ॥७०॥ अभिन्नकर्तृकर्मादिगोचरो निश्चयो ऽथवा । व्यवहारः पुनर्देव निर्दिष्टस्तद्विलक्षणः ॥ ७१ ॥ द्रव्यार्थ पर्ययार्थाभ्यां पुनर्देव नयो मतः । सर्वे श्रुतविकल्पास्ते ग्राह्यभेदादनेकधा ॥७२॥ जीवादीनां च तत्त्वानां ज्ञानादीनां च तत्त्वतः । लोकसंव्यवहारार्थं न्यासो निक्षेप उच्यते ॥७३॥ स च नामादिभिर्भेदैश्चतुर्भेदो ऽभिधीयते । वाच्यस्य वाचकं नाम निमित्तान्तरवर्जितम् ||७४ || प्रतिमा स्थापना ज्ञेया भूतं भावि च केनचित् । पर्यायेण समाख्यातं द्रव्यं नयविवक्षया ॥ ७५ ॥ पर्यायेण समाक्रान्तं वर्तमानेन केनचित् । द्रव्यमेव भवेद्भावो विख्यातो जिनशासने ॥७६॥ सम्यग्दर्शनविज्ञानचारित्र त्रितयात्मकः । मोक्षमार्गस्त्वया देव भव्यानामुपदर्शितः ||७७|| विपरीताभिमानेन शून्यं यद्रूपमात्मनः । तदेवोत्तममर्थानां तच्छ्रद्धानं हि दर्शनम् ॥७८॥ तन्निसर्गात् पदार्थेषु कस्याप्यधिगमात्तथा । जीवस्योत्पद्यते देव द्वेधैवं देशना तव ॥ ७९ ॥ निसर्गः स्वस्वरूपं स्यात् स्वकर्मोपशमादियुक् । तमेवापेक्ष्य यज्जातं दर्शनं तन्निसर्गजम् ||८०||
Jain Education International
For Private & Personal Use Only
५३
www.jainelibrary.org