________________
भास्करनन्दि-विरचितः परेषामुपदेशं तु यदपेक्ष्य प्रजायते। त्वयाधिगमजं देव तच्छद्धानमुदाहृतम् ॥८१।। अथ चैव द्विधा प्रोक्तं तत्कर्मक्षयकारणम् । सरागाधारमेकं स्याद्वीतरागाश्रयं परम् ॥८२।। प्रशमादथ संवेगात् कृपातो ऽप्यास्तिकत्वतः। जीवस्य व्यक्तिमायाति तत् सरागस्य दर्शनम् ॥८३।। पुंसो विशुद्धिमानं तु वीतरागाश्रयं मतम् । द्वेधेत्युक्ता त्वया देव त्रेधाप्युक्तमदस्तथा ।।८४॥ मिथ्यात्वं यच्च सम्यक्त्वं सम्यमिथ्यात्वमेव च । क्रोधादीनां चतुष्कं च संसारानन्तकारणम् ।।८५।। श्रद्धानप्रतिघात्येतत् ख्यातं प्रकृतिसप्तकम् । एतस्योपशमादौपशमिकं दर्शनं मतम् ।।८६।। क्षयात्क्षायिकमाम्नातं त्वया देव सुनिर्मलम् । सम्यक्त्वोदीरणात्षण्णामुदयाभावतस्तथा ॥८७।। तासामेव तु सत्त्वाच्च यज्जातं तद्धि वेदकम् । सम्यग्दर्शनमीदृक्षं निश्चितं मोक्षकाक्षिणाम् ।।८८।। जीवादीनां पदार्थानां यो याथात्म्यविनिश्चयः । तदभ्यधायि विज्ञानं सम्यग्दृष्टिसमाश्रयम् ।।८।। ज्ञानिनो मुक्तसंगस्य संसारोपायहानये। प्रशस्तागूर्णभावस्य सम्यक् श्रद्धानधारिणः ।।९।। कर्मादाननिमित्तानां क्रियाणां यन्निरोधनम् । चारित्रं यन्मुमुक्षोः स्यानिश्चितं मोक्षकारणम् ।।११।। श्रद्धानादित्रयं सम्यक् समस्तं मोक्षकारणम् । भेषजालम्बनं यद्वत्तत्त्रयं व्याधिनाशनम् ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org