________________
ध्यानस्तवः
अन्तातीतगुणो ऽसि त्वं मया स्तुत्यो ऽसि तत्कथम् । ध्यानभक्त्या तथाप्येवं देव त्वय्येव जल्पितम् ॥१३॥ यन्न तुष्यसि कस्यापि नापि कुप्यसि मुह्यसि । किं तु स्वास्थ्यमितो ऽसीति स्तोतुं चाहं प्रवृत्तवान् ॥१४॥ इत्येवं युक्तियुक्ताथैः प्रस्फुटार्थैर्मनोहरैः । स्तोकैरपि स्तवैर्देव वरदो ऽसीति संस्तुतः ॥९५।। रुष्ट्वा तुष्ट्वा करोषि त्वं किंचिद्देव न कस्यचित् । कित्वाप्नोति फलं मर्त्यस्त्वयैकाग्रमनाः स्वयम् ॥९६।। इति संक्षेपतः प्रोक्तं भक्त्या संस्तवभर्मणा। किंचिज्ज्ञेन मया किंचिन्न कवित्वाभिमानतः ॥९७॥ यन्मे ऽत्र स्खलितं किंचिच्छद्मस्थस्यार्थशब्दयोः । तत्संवित्त्यैव सौजन्याच्छोध्यं शुद्धेद्धबुद्धिभिः ॥९८।। नो निष्ठीवेन शेते वदति च न परं एहि याहीति जातु नो कण्डूयेत गात्रं व्रजति न निशि नोद्घाटयेद्द्वानं धत्ते। नावष्टभ्नाति किंचिद्गुणनिधिरिति यो बद्धपर्ययोगः कृत्वा संन्यासमन्ते शुभगतिरभवत्सर्वसाधुः प्रपूज्यः ॥९९।। तस्याभवच्छतनिधिजिनचन्द्रनामा शिष्यो ऽनु तस्य कृतिभास्करनन्दिनाम्ना। शिष्येण संस्तवमिमं निजभावनार्थं ध्यानानुगं विरचितं सुविदो विदन्तु ॥१००।।
इति श्री-भास्करनन्दि-विरचितः ध्यानस्तवः
समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org