________________
भास्करनन्दिविरचितः
पदार्था एव तत्त्वानि सप्त स्युः पुण्यपापयोः । अन्तर्भावो यदाभीष्टो बन्ध आस्रव एव वा ॥५७॥ जीवः स पुद्गलो धर्माधर्मावाकाशमेव च । कालश्चेति समाख्याता द्रव्यसंज्ञा त्वया प्रभो ॥५८॥ प्राणधारणसंयुक्तो जीवो ऽसौ स्यादनेकधा। द्रव्यभावात्मकाः प्राणा द्वेधा स्युस्ते विशेषतः ॥५९॥ स्पर्शाष्टकेन संयुक्ता रसैर्वर्णैश्च पञ्चभिः। द्विगन्धाभ्यां यथायोगं द्वधा स्कन्धाणुभेदतः ॥६०॥ स्थूला ये पुद्गलास्तत्र शब्दबन्धादिसंयुताः । जीवोपकारिणः केचिदन्ये ऽन्योऽन्योपकारिणः ॥६१।। जीवाः पुद्गलकायाश्च सक्रिया वर्णिता जिनैः । हेतुस्तेषां गतेधर्मस्तथाधर्मः स्थितेर्मतः ॥६२॥ यद् द्रव्याणां तु सर्वेषां विवरं दातुमर्हति । तदाकाशं द्विधा ज्ञेयं लोकालोकविभेदतः ॥६३॥ वर्तनालक्षणः कालो मुख्यो देव तवागमे । अर्थक्रियात्मको गौणो मुख्यकालस्य सूचकः ॥६४।। द्रव्यषटकमिदं प्रोक्तं स्वास्तित्वादिगुणात्मकम् । कायाख्यं बहुदेशत्वाज्जीवादीनां तु पञ्चकम् ॥६५॥ कालस्यैकप्रदेशत्वात् कायत्वं नास्ति तत्त्वतः । लोकासंख्यप्रदेशेषु तस्यैकैकस्य संस्थितिः ॥६६॥ धर्माधर्मैकजीवानां संख्यातीतप्रदेशता। व्योम्नो ऽनन्तप्रदेशत्वं पुद्गलानां त्रिधा तथा ॥६७॥ प्रमाणं वस्तुविज्ञानं तन्मोहादिविजितम् । परोक्षेतरभेदाभ्यां द्वेधा मत्यादिपञ्चकम् ॥६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org