________________
ध्यानस्तवः
कुमतिः कुश्रुतज्ञानं विभङ्गाख्यो ऽवधिस्तथा। ज्ञानत्रयमिदं देव मिथ्यादृष्टि ममाश्रयम् ॥४५॥ वस्तुसत्तावलोको यः सामान्यनोपजायते । दर्शनं तन्मतं देव बहिरन्यच्चतुर्विधम् ॥४६॥ चक्षुरालम्बनं तच्च शेषाक्षालम्बनं तथा। अवध्यालम्बनं पुंसो जायते केवलाश्रयम् ॥४७॥ दर्शनं ज्ञानतः पूर्वं छद्मस्थे तत्प्रजायते । सर्वज्ञे यौगपद्येन केवलज्ञानदर्शने ॥४८॥ जीवलक्ष्मविपर्यस्तलक्ष्मादेव तवागमे । अजीवो ऽपि श्रुतो नूनं मूर्तामूर्तत्वभेदभाक् ।।४९।। शुभो यः परिणामः स्याद्भावपुण्यं सुखप्रदम् । भावायत्तं च यत्कर्म द्रव्यपुण्यमवादि तत् ॥५०॥ पुण्याद्विलक्षणं पापं द्रव्यभावस्वभावकम् । ज्ञातं संक्षेपतो देव प्रसादाद्भवतो मया ॥५१॥ कर्मागच्छति भावेन येन जन्तोः स आस्रवः । रागादिभेदवान् योगो द्रव्यकर्मागमो ऽथवा ॥५२॥ आस्रवस्य निरोधो यो द्रव्यभावाभिधात्मकः । तपोगुप्त्यादिभिः साध्यो नैकधा संवरो हि सः ॥५३।। तपो यथा स्वकालाभ्यां कर्म यद्भक्तशक्तिकम् । नश्यत्तन्निर्जराभिख्यं चेतनाचेतनात्मकम् ॥५४॥ जीवकर्मप्रदेशानां यः संश्लेषः परस्परम् । द्रव्यबन्धो भवेत्पुंसो भावबन्धः सदोषता ॥५५॥ बन्धहेतोरभावाच्च निर्जराभ्यां स्वकर्मणः । द्रव्यभावस्वभावस्य विनाशो मोक्ष इष्यते ॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org