________________
५०
भास्करनन्दि - विरचितः
संख्यातीत प्रदेशस्थं ज्ञानदर्शनलक्षणम् । कर्तारं चानुभोक्तारममूर्तं च सदात्मकम् ॥ ३३ ॥ कथंचिन्नित्यमेकं च शुद्धं सक्रियमेव च । न रुष्यन्तं न तुष्यन्तमुदासीनस्वभावकम् ||३४|| कर्मलेपविनिर्मुक्तमूर्ध्वव्रज्यास्वभावकम् । स्वसंवेद्यं विभुं सिद्धं सर्वसंकल्पवर्जितम् ॥३५॥ परमात्मानमात्मानं ध्यायतो ध्यानमुत्तमम् । रूपातीतमिदं देव निश्चितं मोक्षकारणम् ॥३६॥ देहेन्द्रियमनोवाक्षु ममाहंकारबुद्धिमान् । बहिरात्मा न संपश्येद्देव त्वां स बहिर्मुखः || ३७॥ पदार्थान्नव यो वेत्ति सप्त तत्त्वानि तत्त्वतः । षड्द्रव्याणि च पञ्चास्तिकायान् देहात्मनोभिदाम् ||३८|| प्रमाणनयनिक्षेपैः सदृष्टिज्ञानवृत्तिमान् ।
सो ऽन्तरात्मा सदा देव स्यात्त्वां द्रष्टुमलं क्षमः ॥ ३९ ॥ जीवाजीवौ च पुण्यं च पापमात्रवसंवरौ । निर्जरा बन्धमोक्षौ च पदार्था नव संमताः ॥४०॥ चेतनालक्षणस्तत्र जीवो देव मते तव । चेतनानुगता सा च ज्ञानदर्शनयोस्तथा ॥ ४१ ॥ जीवारब्धक्रियायां च सुखे दुःखे च तत्फले । यथासंभवमीशेयं वर्तते चेतना तथा ॥४२॥ प्रतिभासो हि यो देव विकल्पेन तु वस्तुनः । ज्ञानं तदष्टधा प्रोक्तं सत्यासत्यार्थभेदभाक् ॥४३॥ मतियुक्तं श्रुतं सत्यं स मन:पर्ययो ऽवधिः । केवलं चेति सत्यार्थं सद्दृष्टेर्ज्ञानपञ्चकम् ॥४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org