________________
ध्यानस्तवः
स्थिरसर्वात्मदेशस्य समुच्छिन्नक्रियं भवेत् । तुर्यं शुक्लमयोगस्य सर्वज्ञस्यानिवर्तकम् ॥२१॥ नानार्थालम्बना चिन्ता नष्टमोहे न विद्यते । तन्निरोधे ऽपि यद् ध्यानं सर्वज्ञे तत्कथं प्रभो ॥२२॥ योगरोधो जिनेन्द्राणां देशतः कात्य॑तो ऽपि वा। भूतपूर्वगते; तद् ध्यानं स्यादौपचारिकम् ॥२३॥ उक्तमेव पुनर्देव सर्वं ध्यानं चतुर्विधम् । पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् ॥२४॥ स्वच्छस्फटिकसंकाशव्यक्तादित्यादितेजसम् । दूराकाशप्रदेशस्थं संपूर्णोदग्रविग्रहम् ॥२५॥ सर्वातिशयसंपूर्ण प्रातिहार्यसमन्वितम् । परमात्मानमात्मानं भव्यानन्दविधायिनम् ॥२६॥ विश्वशं विश्वदृश्वानं नित्यानन्तसुखं विभुम् ।। अनन्तवीर्यसंयुक्तं स्वदेहस्थमभेदतः॥२७॥ दहन्तं सर्वकर्माणि शुद्धेद्धध्यानवह्निना। त्वामेव ध्यायतो देव पिण्डस्थध्यानमीडितम् ॥२८॥ तव नामपदं देव मन्त्रमैकाग्र्यमीर्यतः । जपतो ध्यानमाम्नातं पदस्थं त्वत्प्रसादतः ॥२९॥ . तव नामाक्षरं शुभ्रं प्रतिबिम्बं च योगिनः । ध्यायतो भिन्नमीशेदं ध्यानं रूपस्थमीडितम् ॥३०॥ शुद्धं शुभ्रं स्वतो भिन्नं प्रातिहार्यादिभूषितम् । देवं स्वदेहमहन्तं रूपस्थं ध्यानतो ऽथवा ॥३१॥ रूपातीतं भवेत्तस्य यस्त्वां ध्यायति शुद्धधीः । आत्मस्थं देहतो भिन्नं देहमानं [देहामत्रं] चिदात्मकम् ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org