________________
भास्करनन्दि-विरचितः
विप्रयोगे मनोज्ञस्य संप्रयोगाय संततम् । संयोगे चामनोज्ञस्य तद्वियोगाय या स्मृतिः ॥९॥ पुंसः पीडाविनाशाय स्यादातँ सनिदानकम् । गृहस्थस्य निदानेन विना साधोत्रयं क्वचित् ॥१०॥ हिंसनासत्यचौर्यार्थरक्षणेभ्यः प्रजायते। क्रूरो भावो हि यो हिंस्रो रौद्रं तद् गृहिणो मतम् ॥११॥ जिनाज्ञा कलुषापायकर्मपाकविचारणा। लोकसंस्थाविचारश्च धर्मो देव त्वयोदितः ॥१२॥ अनपेतं ततो धर्माद्यत्तद् धयं चतुर्विधम् । उत्तमो वा तितिक्षादिर्वस्तुरूपस्तथापरः ॥१३॥ सदृष्टिज्ञानवृत्तानि मोहक्षोभविवर्जितः। यश्चात्मनो भवेद् भावो धर्मः शर्मकरो हि सः ॥१४॥ अनपेतं ततो धर्माद् धर्मध्यानमनेकधा । शमकक्षपकयोः प्राक् श्रेणिभ्यामप्रमत्तके ।।१५।। मुख्यं धयं प्रमत्तादि त्रये गौणं हि तत्प्रभो। धर्म्यमेवातिशुद्धं स्याच्छुक्लं श्रेण्योश्चतुर्विधम् ॥१६॥ सवितर्कं सवीचारं सपृथक्त्वमुदाहृतम् । आद्यं शुक्लं द्वितीयं तु विपरीतं वितर्कभाक् ॥१७॥ श्रुतज्ञानं वितर्कः स्याद्योगशब्दार्थसंक्रमः। वीचारो ऽथ विभिन्नार्थभासः पृथक्त्वमीडितम् ॥१८॥ श्रुतमूले विवर्तेते ध्येयार्थे पूर्ववेदिनोः । उक्त शुक्ले यथासंख्यं त्रैकयोगयुजोविभो ॥१९।। सूक्ष्मकायक्रियस्य स्याद्योगिनः सर्ववेदिनः । शुक्लं सूक्ष्मक्रियं देव ख्यातमप्रतिपाति तत् ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org