________________
परमज्ञानसंवेद्यं वीतबाधं सुखादिवत् । सिद्धं प्रमाणतः सार्वं सर्वज्ञं सर्वदोषदम् ॥ १॥ अन्तातीतगुणाकीर्ण योगाढ्यैर्वास्तवैः स्तवैः । संस्तुवे परमात्मानं लोकनाथं स्वसिद्धये ॥२॥ सिद्धिः स्वात्मोपलम्भः स्याच्छुद्धध्यानोपयोगतः । सम्यग्दृष्टेरसंगस्य तत्त्वविज्ञानपूर्वतः ॥३॥ कर्माभावे ह्यनन्तानां ज्ञानादीनामवापनम् । उपलम्भो ऽथवा सोक्ता त्वया स्वप्रतिभासनम् ॥४॥ समाधिस्थस्य यद्यात्मा ज्ञानात्मा नावभासते । न तद् ध्यानं त्वया देव गीतं मोहस्वभावकम् ॥५॥ नानालम्बनचिन्ताया यदेकार्थे नियन्त्रणम् । उक्तं देव त्वया ध्यानं न जाड्यं तुच्छतापि वा ॥ ६ ॥ ज्ञस्वभावमुदासीनं स्वस्वरूपं प्रपश्यतः । स्फुटं प्रकाशते पुंसस्तत्त्वमध्यात्मवेदिनः ॥७॥ आतं रौद्रं तथा धर्म्यं शुक्लं चेति चतुर्विधम् । तत्राद्यं संसृतेर्हेतुर्द्वयं मोक्षस्य तत्परम् ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org