Book Title: Dhaturatnakar Part 5 Author(s): Lavanyasuri Publisher: Rashtriya Sanskrit Sansthan New Delhi View full book textPage 8
________________ श्रीमनिपुङ्गवेभ्यो नमः सकलस्वपरसमयपारावारपारीण-तीर्थसंरक्षणप्रवण-विद्यापीठादिप्रस्थानपञ्चकसमाराधक-तपोगच्छाधिपतिभट्टारकाचार्यवर्य-परमगुरुश्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः श्रीमत्तपोगणगगनाङ्गणगगनमणि- सार्वसार्वज्ञशासनसार्वभौम-तीर्थरक्षणपरायणकोविदकुलालङ्कार-अखण्डविजयश्रीमद्गुरुराज - विजयनेमिसूरीश्वरचरणारविन्दचञ्चरीकायमाणान्तिषन्मुनिलावण्यविजयप्रणीतो धातुरत्नाकर: तस्य चायं भावकर्मप्रक्रियाविभागः त्वा श्री मिनामानमाजन्मब्रह्मचारिणम् । तीर्थनाथं गुरुं चैव भारतीं जिनभाषितम् ||१|| धातुरत्नाकरे कुर्वे विभागं सप्तमं मुदा । सूरिर्लावण्यनामा हि बालानां सुखहेतवे ॥ २ ॥ निरूपिता नामधातुप्रक्रिया, इदानीं भावकर्मप्रक्रिया निरूप्यते भ्वादिगणपठितत्वे सति क्रियावाचित्वं धातुत्वमिति धातुलक्षणम् "क्रियार्थो धातुः " इत्यनेन बोधितम् । अत्र सत्यन्तपदादने “आणवयति" इत्याद्यपभ्रंशशब्दानां प्रकृतिभागस्य धातुत्वे शास्त्रविषयतया साधुत्वापत्तिः स्यात्, (साधुत्वं च व्याकरणान्वाख्यत्वे सति पुण्यजनकतावच्छेदकधर्मवत्त्वम्) तथा सति याज्ञे याज्ञे कर्मणि तदुच्चारणे पापभागितानापत्तिः । न साधुशब्देन साधुशब्दस्मरणद्वारा अर्थबोध इत्याणवयतीत्यादौ क्रियावाचित्वाभावादेवादोष इति वाच्यम, साधुशब्दस्मरणं विनापि बोधानुभवात् तद्वाचकसाधुशब्दमजानतां बोधानापत्तेः " वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः” इति हर्युक्तेश्च । क्रियावाचित्वपदानुपादाने विकल्पार्थवाशब्दस्य धातुत्वं स्यात् । क्रियावाचित्वश्च क्रियानिष्ठमुख्यविशेष्यताकबोधानुकूलशक्तिविशिष्टत्वम्, वै० स्वपर्याप्त्यधिकरणत्वस्वनिरूपकार्थविषयकबोधतात्पर्येणोच्चरितत्वोभयसम्बन्धेन । तथा च दरिं द्रातीतिव्युत्पत्तिसिद्धदरिद्राशब्दे दुर्गतित्वावच्छिन्नमुख्यविशेष्यताकबोधानुकूला या शक्तिस्तत्पर्य्याप्त्यधिकरणेत्वेऽपि तन्निरूपकार्थविषयकबोधतात्पर्येणोच्चरितत्वाभावात् कुत्सितगमनमुख्यविशेष्यताकबोधानुकूलद्रापर्याप्तशक्तिनिरूपकार्थविषयबोधतात्पर्येणोच्चरितत्वेऽपि तादृशशक्तिपर्याप्त्यधिकरणत्वाभावाच नातिव्याप्तिः, प्रथमसम्बन्धादेव च ' शिश्ये' इत्यादौ नातिव्याप्तिः । द्वितीयसम्बन्धादेव विकल्पार्थकवाशब्दे नातिव्याप्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 534