________________
श्रीमनिपुङ्गवेभ्यो नमः
सकलस्वपरसमयपारावारपारीण-तीर्थसंरक्षणप्रवण-विद्यापीठादिप्रस्थानपञ्चकसमाराधक-तपोगच्छाधिपतिभट्टारकाचार्यवर्य-परमगुरुश्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः
श्रीमत्तपोगणगगनाङ्गणगगनमणि- सार्वसार्वज्ञशासनसार्वभौम-तीर्थरक्षणपरायणकोविदकुलालङ्कार-अखण्डविजयश्रीमद्गुरुराज - विजयनेमिसूरीश्वरचरणारविन्दचञ्चरीकायमाणान्तिषन्मुनिलावण्यविजयप्रणीतो
धातुरत्नाकर:
तस्य चायं भावकर्मप्रक्रियाविभागः
त्वा श्री मिनामानमाजन्मब्रह्मचारिणम् । तीर्थनाथं गुरुं चैव भारतीं जिनभाषितम् ||१|| धातुरत्नाकरे कुर्वे विभागं सप्तमं मुदा ।
सूरिर्लावण्यनामा हि बालानां सुखहेतवे ॥ २ ॥
निरूपिता नामधातुप्रक्रिया, इदानीं भावकर्मप्रक्रिया निरूप्यते
भ्वादिगणपठितत्वे सति क्रियावाचित्वं धातुत्वमिति धातुलक्षणम् "क्रियार्थो धातुः " इत्यनेन बोधितम् । अत्र सत्यन्तपदादने “आणवयति" इत्याद्यपभ्रंशशब्दानां प्रकृतिभागस्य धातुत्वे शास्त्रविषयतया साधुत्वापत्तिः स्यात्, (साधुत्वं च व्याकरणान्वाख्यत्वे सति पुण्यजनकतावच्छेदकधर्मवत्त्वम्) तथा सति याज्ञे याज्ञे कर्मणि तदुच्चारणे पापभागितानापत्तिः । न साधुशब्देन साधुशब्दस्मरणद्वारा अर्थबोध इत्याणवयतीत्यादौ क्रियावाचित्वाभावादेवादोष इति वाच्यम, साधुशब्दस्मरणं विनापि बोधानुभवात् तद्वाचकसाधुशब्दमजानतां बोधानापत्तेः " वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः” इति हर्युक्तेश्च । क्रियावाचित्वपदानुपादाने विकल्पार्थवाशब्दस्य धातुत्वं स्यात् । क्रियावाचित्वश्च क्रियानिष्ठमुख्यविशेष्यताकबोधानुकूलशक्तिविशिष्टत्वम्, वै० स्वपर्याप्त्यधिकरणत्वस्वनिरूपकार्थविषयकबोधतात्पर्येणोच्चरितत्वोभयसम्बन्धेन । तथा च दरिं द्रातीतिव्युत्पत्तिसिद्धदरिद्राशब्दे दुर्गतित्वावच्छिन्नमुख्यविशेष्यताकबोधानुकूला या शक्तिस्तत्पर्य्याप्त्यधिकरणेत्वेऽपि तन्निरूपकार्थविषयकबोधतात्पर्येणोच्चरितत्वाभावात् कुत्सितगमनमुख्यविशेष्यताकबोधानुकूलद्रापर्याप्तशक्तिनिरूपकार्थविषयबोधतात्पर्येणोच्चरितत्वेऽपि
तादृशशक्तिपर्याप्त्यधिकरणत्वाभावाच
नातिव्याप्तिः, प्रथमसम्बन्धादेव च ' शिश्ये' इत्यादौ नातिव्याप्तिः । द्वितीयसम्बन्धादेव विकल्पार्थकवाशब्दे नातिव्याप्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org