________________
लिडादौ तु आस्वादनमुख्यविशेषकबोधानुकूला या शक्तिस्तत्पर्याप्त्यधिकरणत्वस्य तन्निरूपकास्वादनविषयको य आस्वादनकर्तृमुख्यविशेष्यको बोधस्तत्ताप्तर्येणोचरितत्वस्य च सत्त्वानाव्याप्तिः। लक्षणघटकक्रियात्वञ्च साध्यत्वेन प्रतीयमानत्वम्, साध्यत्वञ्च कालान्वयितावच्छेदकविलक्षणरूपत्त्वम्। (साध्यमानावस्था पूर्वापरीभूता क्रिया कारकव्यापारविशेष इति तु परिचायकम्) सिद्धसाध्यभेदात् क्रिया द्विविधा, तत्र सिद्धक्रियापरिचायकन्तु क्रियान्तराकाङ्क्षोत्थापक-तावच्छेदकवैजात्यवत्त्वे सति सारकत्वेन क्रियान्वयित्वे सति कारकान्तरान्वयायोग्यत्वं सिद्धत्वमिति। साध्यक्रियापरिचायकम्-क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकं सत् कारकान्तरान्वययोग्यतावच्छेदकधर्मवत्त्वं साध्यत्वमिति। इदं क्रियालक्षणं न भवितुमर्हति क्रियाघटितत्वेन अन्योन्याश्रयात्। एवंभूतधात्वर्थस्तु फलानुकूलव्यापारः वैयाकरणमते फलविशिष्टव्यापारे धातुशक्तिस्वीकारात्। तत्र फलत्वञ्च कर्तृप्रत्ययसमभिव्याहारे तदधात्वर्थनिष्ठाविशेष्यतानिरूपितप्रकारताश्रयत्वे सति तद्धात्वर्थजन्यत्वम्। विभागजन्यसंयोगरूपे पतत्यादिधात्वर्थे विभागस्य फलत्ववारणाय उत्तरदलम्। संयोगस्य फलत्ववारणाय सत्यन्तम्। अत एव वृक्षात् पर्णं भूमौ पतति-इत्यत्र विभागाश्रयस्य वृक्षस्य संयोगाश्रयस्य भूमेन कर्मत्वम्। व्यापारत्वञ्च धात्वर्थफलजनकत्वे सति धातुवाच्यत्वम्। अनुकूलत्वं संसर्गः। अनुकूलत्वञ्च फलनिष्ठजन्यतानिरूपितजनकत्वम्। धातुर्द्विविधः सकर्मकोऽकर्मकश्च। तत्र फलव्याधिकरणव्यापारवाचकत्वं सकर्मकत्वम्। फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम्। एतच्च लक्षणम् अकर्मकाणामप्यंशद्वयाभिधायकत्वाभिप्रायेण। अकर्मधातुस्थले फलविशिष्टव्यापारो नास्ति किन्तु व्यापार एव अर्थः, तदा कर्मत्वेन कालाद्यतिरिक्तकर्मानन्वय्यर्थकत्वम् अकर्मकत्वम्। शब्दशास्त्रीयकर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्मकत्वम्।
ननु सर्वेषां धातूनां क्रिया आन्तरं कर्म, अत एव "स्तोकमेधते' इत्यादौ क्रियाविशेषणस्य कर्मत्वं स्मरन्ति, एवं सति अकर्मकत्वव्यवहारः कथमिति चेन्न, तद्व्यवहारस्य द्रव्यकर्माभावनिबन्धनत्वात्। अयं भावः । कालाध्वभावदेशापेक्षया आन्तरकर्मापेक्षया च सर्वे धातवः सकर्मका एवेति शास्त्रे अकर्मकपदसामर्थ्यात्, क्वचिद्येऽकर्मका इति भाष्यात्, 'द्रव्ये कर्मणि प्रतियोगिनि सत्यकर्मकाः' इति तद्विवरणात्, ‘अतस्तैः कर्मभिर्युक्तो धातुर्द्रव्यैरकर्मकः' इत्यभियुक्तोक्तेश्च कालाद्यतिरिक्तद्रव्यकर्मप्रतियोगिताभाववन्तो धातवोऽकर्मकपदेन व्यवह्रियन्ते। आन्तरकर्मणा सकर्मणोऽप्यकर्मक-कार्यप्रतिपत्त्यर्थस्य "क्रियाविशेषणात्" इति योगस्यात्रैव तात्पर्यम्, अत एव "सकर्मकाकर्मत्वं द्रव्यकर्मनिबन्धनम्" इत्युक्तम्। अकर्मकधातुयोगे कालादीनां कर्मसंज्ञाया अकर्मकसंज्ञायाश्च युगपद्विधानेन कालाद्यतिरिक्तद्रव्यकर्माभाववन्तो धातवोऽकर्मकाः बाह्यकर्मवन्तो धातवः सकर्मका इति व्यवहारः सिद्धः, एवं सति कर्मत्वेन कालाद्यतिरिक्तद्रव्यकर्मानन्वय्यर्थकत्वमकर्मकत्वम्, शब्दशास्त्रीयकर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्मकत्वमति निकृष्टं लक्षणम्। इति। वृद्धिक्षयभयजीवितमरणम्। शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः।।१।।" इत्यभियुक्तोक्तं सङ्गच्छते "धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात्। प्रसद्धरविवक्षातः कर्मणोऽकर्मिका क्रियाः।।१।।" इत्यथांन्तरवृत्त्यादिना ये अकर्मकास्तेषामपि उक्ताकर्मलक्षणग्रस्तत्वमस्त्येव। अर्थान्तरवृत्तेरकर्मिका क्रिया भवति, यथानदी वहति स्रवतीत्यर्थः। कर्मणो धात्वर्थान्त:प्रवेशादकर्मत्वं यथा-"जीव प्राणधारणे' जीवति, “हदिं पुरोषोत्सर्गे" हदत, अत्र प्राणपुरीषाख्ये कर्मणी धात्वर्थेनैव क्रोडीकृते। नन्वेवं कर्मणो धात्वर्थेनोपसंग्रहादकर्मकत्वे 'जिघ्रति कुसुमम्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org