________________
इत्यादिप्रयोगो न सिध्येदिति चेन्न यद्धात्वर्थोपसंगृहीतकर्मणः कर्तृनिष्ठत्वं तस्यैवाकर्मकत्वाङ्गीकारेण प्राधातोः कर्मणोऽतथात्वेनोक्तप्रयोगोपपत्तेः । कर्मणः प्रसिद्धत्वादकर्मिका क्रिया यथा देवो वर्षति । कर्मणोऽविवक्षातोऽकर्मिका क्रिया यथा-पचति । कर्मणोऽविवक्षा च द्वेधा - कर्मणः सम्बन्धित्वेन विवक्षा धातोर्व्यापारमात्रबोधकत्वेन तात्पर्ये कर्मान्वययोग्यफलस्य त्यागः । एवञ्च सकर्मकाकर्मकभेदेन द्विविधो धातुरिति सिद्धम् । तत्र सकर्मकेभ्यो धातुभ्य कर्तरि कर्मणि च त्यादिप्रत्ययो भवति, यदा कर्तरि प्रत्ययस्तदा कर्तृपदं प्रथमान्तं कर्मपदं द्वितीयान्तम्, यदा कर्मणि प्रत्ययस्तदा कर्म प्रथमान्तं कर्तृपदं तृतीयान्तम् । नीहृकृषवहव्यतिरिक्तदुह्यादिभ्यो द्विकर्मकेभ्यः कर्मणि प्रत्यये अप्रधानं कर्म प्रथमान्तं प्रधानन्तु द्वितीयान्तमेव । नीहृकृषिवहिभ्यः प्रधानकर्मणि प्रत्यये प्रधानकर्म प्रथमान्तमप्रधानं द्वितीयान्तम् । व्यापारद्रयार्थकत्वविवक्षायान्तु दुहादिभ्यः कर्मणि प्रत्यये 'प्रधानकर्मण्याख्येये' इतिबलात् प्रधानकर्मणि प्रत्यये प्रधानकर्मणि उक्तत्वात् ततः प्रथमाः, अप्रधानकर्मणो द्वितीया, बुद्ध्यर्थभक्षार्थकशब्दकर्मक-प्रकृतिकण्यन्तधातुभ्यः प्रधानेऽप्रधाने कर्मणि यथाकामं प्रत्ययो भवति । तद्भिन्नसकर्मकण्यन्तधातुभ्यः प्रधाने कर्मणि प्रत्ययः । प्रधानकर्मत्वञ्च कर्तृप्रत्ययसमभिव्याहारे कर्तृनिष्ठ प्रधानव्यापारविशेषणफलाश्रयत्वम्। उक्तप्रधानकर्मभिन्नकर्मत्वमप्रधानकर्मत्वम्। अकर्मकेभ्यः (कालाद्यतिरिक्तद्रव्यकर्मरहितेभ्यः, अविवक्षितकर्मभ्यः ) कर्तरि त्यादयो भवन्ति तदा कर्तुरुक्तत्वात् प्रथमा । भावे तु कर्तुरनुक्तत्वात् तृतीया भवति । भाव इत्यत्र उत्पत्त्यनुकूलव्यापारवाचक भूधातुप्रकृतिणिगन्तादल् प्रत्ययः । एवञ्च भाव इत्यस्य भावना उत्पादना ( फलोत्पत्त्यनुकूलव्यापारः ) क्रिया इत्यर्थः । भावशब्दस्य भावनेति विवरणाद् मीमांसकमतं निरस्तं भवति । तथाहि मीमांसकाः फलं धात्वर्थ:, भावना (व्यापार: ) प्रत्ययार्थः प्रत्ययार्थः प्रधानमिति (प्रत्ययार्थं प्रति प्रकृत्यर्थस्य विशेषणताया औपगवादौ क्लृप्तत्वात्) पचतीत्यादावेककर्तृका वर्तमाना पचिक्रियेत्यादिक्रियाविशेष्यको बोधः । प्रत्ययार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम्, प्रत्ययार्थव्यापारसमानाधिकरणफलवाचकत्वमकर्मकत्वम् । प्रत्ययार्थव्यापाराश्रयत्वं कर्तृत्वम् । प्रत्ययार्थव्यापारव्यधिकरणफलाश्रयत्वं कर्मत्वम्। व्यापारेणाश्रयाक्षेपात्कर्तुरभिधानम्, कर्माख्याते च प्रधानेन फलेन स्वाश्रयाक्षेपात्कर्मणोऽभिधानमिति वदन्ति । तन्न वैयाकरणसम्मतम्-त्यादिविधायकसूत्रविरोधापत्तेः । सूत्रेण व्यापारस्य प्रत्ययार्थताया अलाभात् पचति, पश्यति पक्वान् इत्यादौ फूत्कारादिप्रतीतयेऽनेकप्रत्ययानां शक्तिकल्पनापेक्षया एकस्य धातोरेव शक्तिकल्पनौचित्यात् । फूत्कारादेः प्रत्ययार्थत्वे गच्छतीत्यादौ तत्प्रतीतिवारणाय तद्बोधे पचिसमभिव्याहारस्यापि कारणत्वकल्पने ऽतिगौरवाच्च । भावविहितघञादीनां व्यापारावाचकत्वे ग्रामो गमनवानित्याद्यापत्तेः, तद्वाचकत्वे तेनापि स्वाश्रयाक्षेपे कर्तुरभिधानापत्तेः । किञ्च गुरु: शिष्याभ्यां पाचयतीत्यादौ प्रयोज्यव्यापारस्याख्यातार्थत्वे संख्यायाः स्ववाचकाख्यातार्थ-व्यापारं ऽन्वयिन्येवान्वयाच्छिष्याभ्यामिति द्विवचनानापत्तेः पाचयतीत्येकवचनानापत्तेश्च गुरोरनभिधानेन तत्र प्रथमाया अनापत्ते, शिष्यशब्दात्तदापत्तेश्च क्रियाप्रधानमाख्यातमिति स्मरणात्, 'प्रत्ययार्थः प्रधानमिति' उत्सर्गस्य त्यागात्, टाबाद्यर्थत्वेन मीमांसकैरभ्युपगतस्य स्त्रीत्वस्य पाचिकादौ विशेषणत्वाभ्युपगमात् प्रत्ययार्थः प्रधानमिति नियमस्य प्रत्युक्तत्वाच्च । तथा च धातुवाच्यत्वं भावनाया इत्येव मतं रमणीयतरमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org