SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ उत्पादना (उत्पत्त्यनुकूलव्यापार:) क्रिया इत्यनेन तु क्रियार्थो धातुर्धात्वर्थः क्रियेत्यन्योन्याश्रयोऽत्र दुष्परिहर इति केपाञ्चिदाक्षेपो निरस्त उत्पत्त्यनुकूलव्यापारस्य क्रियात्वात्। किञ्च क्रिया कृतियत्नः, यत्न एव करोत्यर्थ इति मतस्य निरासाय उत्पादना क्रियेति विवरणम्। तथाहि-करोतिर्यनार्थत्वेऽकर्मकतापत्ते, ज्ञानेच्छादिवद्यनस्य कर्तृस्थत्वात् क्रियते घटः स्वयमेवेति प्रयोगस्यासिद्धेश्च करोतेर्यनार्थत्वं न युक्तम्, तदुक्तम्-"व्यापारो भावना सैवोत्पादना सैव च क्रिया। कृञोऽकर्मकतापत्तेर्नहि यत्नोऽर्थ धात्वर्थत्वञ्च' बोधयितुम्। तेन गम्यते ग्रामो रथेनेत्यस्योपपत्तिः। क्रियात्वं न धातुवाच्यतावच्छेदकं क्रिया त्वरूपसामान्यधर्मस्य वाच्यतानवच्छेदकत्वात्। अत एव पचति चैत्र इति वाक्यजन्यशाब्दबोधोत्तरं फूत्कारवान् नवेति संशयानुत्पत्तिः सङ्गच्छते। यदि क्रियात्वरूपसामान्यधर्म एव वाच्यतावच्छेदकः स्यान्नतु फूत्कारत्वादिविशेषधर्मस्ता सामान्यधर्मावच्छिन्नप्रकारकनिश्चयस्य विशेषधर्मावच्छिन्नाभावकाटिसंशयविरोधिता न स्यात्। न चैवं फूत्कारत्वादिविशेषधर्मावच्छिन्नप्रकारशाब्दबोधे जाते सामान्यधर्मावच्छिन्नाभावकोटिकः संशयः स्यादिति वाच्यम्। विशेषधर्मावच्छिन्नप्रकारकनिश्चयोत्तरं सामान्यधर्मावच्छिन्नप्रकारकमानसस्यानुमितेर्वा जननात्। सा च (क्रिया) धातुत्वव्याप्यपचित्वादिना ज्ञायमानसकलधातुवाच्या भावार्थकात्मनेपदेनानूद्यते। (धातुत्वं न शक्ततावच्छेदकम्, तदजानतोऽपि शाब्दबोधदर्शनात्, सर्वधातुभ्यः सर्वक्रियाबोधापत्तेश्च, शक्ततावच्छेदिका च पचाद्यानुपूर्येव) भावार्थकात्मनेपदस्थले युष्मदस्मदर्थस्याभिधेयत्वाभावात् युप्मदस्मत्कर्तृकत्वेऽपि द्वितीयतृतीयत्रिके न भवतः। आत्मनेपदानुवाद्यभावनाया असत्त्वरूपत्वेन द्वित्वाप्रतीतेन द्विवचनादि किन्त्वेकवचनमव तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात्। (लिङ्गाद्यनन्वयित्वं सर्वनामपरामर्शायोग्यत्वं वा असत्त्वम्)। अनभिहिते कर्तरि तृतीया भवति। तथा च भावे त्वया मया अन्यैश्च भूयते इत्यादिप्रयोगो भवति। एवञ्च येषां सकर्मकाणां धातूनां कर्मणि सर्वाणि रूपाणि लिखितानि सन्ति, तेषामपि कर्मणोऽविवक्षायां भावे रूपाणि भवन्ति, परन्तु कर्मप्रत्ययघटितेषु लिखितेषु रूपेषु यानि सर्वविभक्तिप्रथमत्रिकैकवचनघटितानि, रूपाणि, तान्येव रूपाणि भवन्तीति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy