Book Title: Dharmmangal
Author(s): Lilavati Jain
Publisher: Lilavati Jain

View full book text
Previous | Next

Page 74
________________ ७४ चिदानन्दमय शुद्धं निराकारं निरामयम् । ... अनन्तसुखसम्पन्नं सर्वसङ्ग विवर्जितम् ।।१३।। लोकमात्र प्रमाणोऽयं, निश्चयेन न संशयः। व्यवहारे तनूमात्रः कथितः परमैश्वरैः ।।१४।। यत्क्षणं दृश्यते शुद्धं, तत्क्षणं गत-विभ्रमः । स्वस्थ चित्तः स्थिरिभूत्वा, निर्विकल्प समाधिना ।।१५।। स एव परमं ब्रह्म, स एव जिन पुङ्गवः । स एव परमं तत्त्वं, स एव परमो गुरूः ।।१६।। स एव परमं ज्योतिः स एव परमं तपः । स एव परम ध्यान, स एव परमात्मनः ।।१७।। स एव सर्व कल्याणं, स एव सुख भाजनम् । स एव शुद्ध चिद्रूपं, स एव परमः शिवः ।।१८।। स एव परमानन्दः, ज्योतिः सुखदायकः। स एव पर चैतन्यं, स एव गुणसागरः।।१९।। परमाह्लाद-सम्पन्नं, रागद्वेष विवर्जितम्।। अर्हन्तं देहमध्येतु, यो जानाति स पण्डितः।।२०।। आकार रहितं शुद्धं, स्व-स्वरूप व्यवस्थितम् । सिद्धमष्टगुणोपेतं, निर्विकारं निरंजनम् ।।२१।। तत्सदृशं निजात्मानं, प्रकाशाय महीयसे। सहजानन्द चैतन्यं, यो जानाति स पण्डितः।।२२।। पाषाणेषु यथा हेम, दुग्धमध्ये यथा घृतम् । तिलमध्ये यथा तैलं, देहमध्ये तथा शिवः ।।२३।। काष्ठमध्ये यथा वह्निः, शक्तिरूपेण तिष्ठति। अयमात्मा शरीरेषु यो जानाति स पण्डितः ।।२४ ।।

Loading...

Page Navigation
1 ... 72 73 74 75 76