Book Title: Dharmmangal
Author(s): Lilavati Jain
Publisher: Lilavati Jain
View full book text
________________
७३
* परमानन्द स्तोत्र *
___ अकलंकदेव स्वामी परमानन्द संयुक्तं, निर्विकारं निरामयम् । ध्यानहीना न पश्यन्ति, निजदेहे व्यवस्थितम् ।।१।।
अनन्तसुख-सम्पन्न, ज्ञानामृत पयोधरम् ।
अनन्तवीर्य सम्पन्नं, दर्शनं परमात्मनः ।।२।। निर्विकारं निराबाधं, सर्वसंग विवर्जितम् । परमानन्द सम्पन्नं, शुद्ध चैतन्यलक्षणम् ।।३।।
उत्तमा स्वात्मचिन्तास्यान्मोहचिन्ताचमध्यमा।
अधमा कामचिन्तास्यात्परचिन्ताऽधमाधमा ।।४।। निर्विकल्पसमुत्पन्नं, ज्ञानमेवसुधारसम् । विवेकमञ्जलि कृत्वा, तत्पिबन्ति तपस्विनः ।।५।।
सदानन्दमयं जीवं, यो जानाति स पण्डितः।
स सेवते निजात्मानं, परमानन्द कारणम् ।।६।। नलिन्यां च यथा नीरं, भिन्नं तिष्ठति सर्वदा। अयमात्मा स्वभावेन, देहे तिष्ठति निर्मलः ।।७।।
द्रव्यकर्म मलैर्मुक्तं भावकर्म विवर्जितम् ।
नोकर्म रहितं बिद्धि, निश्चयेन चिदात्मनः ।।८।। आनन्दं ब्रह्मणो रूपं, निजदेहे व्यवथितम् । ध्यानहीना न पश्यन्ति, जात्यन्धा इव भास्करम् ।।९।।
तद्ध्यानं क्रियते भव्यैर्मनोयेन विलीयते।
तत्क्षणं दृश्यते शुद्धं, चिच्चमत्कार लक्षणम् ।।१०।। ये ध्यानशीला मुनयः प्रधानास्ने दुःखहीना नियमाद् भवन्ति । सम्प्राप्य शीघ्रं परमात्मतत्त्वं, ब्रजन्ति मोक्षं क्षणमेकमेव ।।११।। आनन्दरूपं परमात्मतत्त्वं, समस्त संकल्पविकल्पमुक्तम् । स्वभावलीना निवसन्ति नित्यं, जानाति योगी स्वयमेव तत्त्वम् ।।१२।।

Page Navigation
1 ... 71 72 73 74 75 76