________________
७४
चिदानन्दमय शुद्धं निराकारं निरामयम् । ... अनन्तसुखसम्पन्नं सर्वसङ्ग विवर्जितम् ।।१३।। लोकमात्र प्रमाणोऽयं, निश्चयेन न संशयः। व्यवहारे तनूमात्रः कथितः परमैश्वरैः ।।१४।।
यत्क्षणं दृश्यते शुद्धं, तत्क्षणं गत-विभ्रमः ।
स्वस्थ चित्तः स्थिरिभूत्वा, निर्विकल्प समाधिना ।।१५।। स एव परमं ब्रह्म, स एव जिन पुङ्गवः । स एव परमं तत्त्वं, स एव परमो गुरूः ।।१६।।
स एव परमं ज्योतिः स एव परमं तपः ।
स एव परम ध्यान, स एव परमात्मनः ।।१७।। स एव सर्व कल्याणं, स एव सुख भाजनम् । स एव शुद्ध चिद्रूपं, स एव परमः शिवः ।।१८।।
स एव परमानन्दः, ज्योतिः सुखदायकः।
स एव पर चैतन्यं, स एव गुणसागरः।।१९।। परमाह्लाद-सम्पन्नं, रागद्वेष विवर्जितम्।। अर्हन्तं देहमध्येतु, यो जानाति स पण्डितः।।२०।।
आकार रहितं शुद्धं, स्व-स्वरूप व्यवस्थितम् ।
सिद्धमष्टगुणोपेतं, निर्विकारं निरंजनम् ।।२१।। तत्सदृशं निजात्मानं, प्रकाशाय महीयसे। सहजानन्द चैतन्यं, यो जानाति स पण्डितः।।२२।।
पाषाणेषु यथा हेम, दुग्धमध्ये यथा घृतम् ।
तिलमध्ये यथा तैलं, देहमध्ये तथा शिवः ।।२३।। काष्ठमध्ये यथा वह्निः, शक्तिरूपेण तिष्ठति। अयमात्मा शरीरेषु यो जानाति स पण्डितः ।।२४ ।।