Book Title: Dharm vidhi Prakaranam
Author(s): Udaysinhsuri, Shreeprabhsuri
Publisher: Hansvijayji Library
View full book text
________________
धर्मविधि ॥ १ ॥
सज्जनमुदेऽत्र सूक्तं, यच्चान्यदुष्टतुष्टये तदपि । द्वेधापि परोपकृते-र्मम श्रमः सफल एवासौ ॥ ९ ॥ यथाह परो वायस - दशनपरीक्षेव निरभिधेयमिदम् । अपि चाप्रयोजनं खलु, कण्टकशाखोपमर्द्दनवत् ॥ १० ॥ दश दाडिमानि पूपाः, षडिति वचोवत्तथा न सम्बद्धम् । इत्यादिहेतुनिवह - स्यासिद्धत्वप्रकटनाय ॥ ११ ॥ प्रेक्षावतां प्रवृत्त्यै, शास्त्रादावादिमङ्गलार्थ च । प्रकरणकारः प्रथमं, गाथामेकामिमामाह ॥ १२ ॥ नमिऊण वद्धमाणं, तियसिंदनरिंदविहियबहुमाणं । वुच्छं सपरहियत्थं, धम्मविहिमहं समासेण ॥ १ ॥
व्याख्या - धर्म्मविधिनाम प्रकरणं, तत्र दुर्गतौ पतन्तं प्राणिगणं धारयतीति धर्म्मः, तस्य 'विधि ः ' - कर्त्तव्यलक्षणोऽर्थ - स्तमहं 'समासेन'–सङ्क्षेपेण 'वक्ष्ये' भणिष्यामि, 'स्वपरहितार्थम्' इति क्रियाविशेषणं, तत्र स्वहितं पुण्यजनकत्वात् । परहितं चोपदेशात्मकत्वात् । किं कृत्वा वक्ष्यामीत्याह - 'नत्वा' - प्रणम्य, कं ? ' वर्द्धमानं ' - वर्त्तमानतीर्थाधिपति, कि विशिष्टं ? 'त्रिदशेन्द्रनरेन्द्रविहितबहुमानं ' तत्र त्रिदशाश्चतुर्विधदेवास्तेषामिन्द्राः - परमैश्वर्यभाजो 'नरा' मनुजास्तेषामिन्द्राश्चक्रवर्त्त्यादयस्तैर्विहितः प्रकटितो 'बहुमान: ' पूजातिरेकोऽन्तरङ्गभक्तिप्रकर्षो वा यत्र स तथेति गाथार्थः ॥ १ ॥ अत्र च 'धर्म्मविधिमहं वक्ष्यामी' त्येतदुक्तमभिधेयम्, स्वपर हितार्थमितिपदात् प्रयोजनं चापि सूत्रकृता । तच्च प्रयोजनं स्यात्, इह कर्तृश्रोतृभेदतो द्वेधा । पुनरेकैकं भवति, द्विभेदमपरं परं चेति ॥१॥ कर्त्तुरपरं प्रयोजन - मिह सत्त्वानुग्रहः परं मोक्षः । श्रोतुरपि शास्त्रतत्त्वावगमो मुक्तिश्च तत्करणात् ||२|| सम्बन्धश्च प्रकरण-मध्यगतो वाच्यवाचकाभिख्यः । इत्यभिधेयादियुते, बुद्धिमतां स्यात् प्रवृत्तिरि ॥ ३ ॥ इष्टोऽत्र वर्द्धमानः, साक्षाद्धर्मोपदेशकत्वेन । तत्तस्य नमस्करणा-च्छास्त्रादौ मङ्गलं कथितम् ॥४॥ यदुक्तं धर्म्मविधिनाम प्रकरणमेतत्तदेवार्थतो व्युत्पादयन्नाह
प्रकरणम्
॥ १ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 320