SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ धर्मविधि ॥ १ ॥ सज्जनमुदेऽत्र सूक्तं, यच्चान्यदुष्टतुष्टये तदपि । द्वेधापि परोपकृते-र्मम श्रमः सफल एवासौ ॥ ९ ॥ यथाह परो वायस - दशनपरीक्षेव निरभिधेयमिदम् । अपि चाप्रयोजनं खलु, कण्टकशाखोपमर्द्दनवत् ॥ १० ॥ दश दाडिमानि पूपाः, षडिति वचोवत्तथा न सम्बद्धम् । इत्यादिहेतुनिवह - स्यासिद्धत्वप्रकटनाय ॥ ११ ॥ प्रेक्षावतां प्रवृत्त्यै, शास्त्रादावादिमङ्गलार्थ च । प्रकरणकारः प्रथमं, गाथामेकामिमामाह ॥ १२ ॥ नमिऊण वद्धमाणं, तियसिंदनरिंदविहियबहुमाणं । वुच्छं सपरहियत्थं, धम्मविहिमहं समासेण ॥ १ ॥ व्याख्या - धर्म्मविधिनाम प्रकरणं, तत्र दुर्गतौ पतन्तं प्राणिगणं धारयतीति धर्म्मः, तस्य 'विधि ः ' - कर्त्तव्यलक्षणोऽर्थ - स्तमहं 'समासेन'–सङ्क्षेपेण 'वक्ष्ये' भणिष्यामि, 'स्वपरहितार्थम्' इति क्रियाविशेषणं, तत्र स्वहितं पुण्यजनकत्वात् । परहितं चोपदेशात्मकत्वात् । किं कृत्वा वक्ष्यामीत्याह - 'नत्वा' - प्रणम्य, कं ? ' वर्द्धमानं ' - वर्त्तमानतीर्थाधिपति, कि विशिष्टं ? 'त्रिदशेन्द्रनरेन्द्रविहितबहुमानं ' तत्र त्रिदशाश्चतुर्विधदेवास्तेषामिन्द्राः - परमैश्वर्यभाजो 'नरा' मनुजास्तेषामिन्द्राश्चक्रवर्त्त्यादयस्तैर्विहितः प्रकटितो 'बहुमान: ' पूजातिरेकोऽन्तरङ्गभक्तिप्रकर्षो वा यत्र स तथेति गाथार्थः ॥ १ ॥ अत्र च 'धर्म्मविधिमहं वक्ष्यामी' त्येतदुक्तमभिधेयम्, स्वपर हितार्थमितिपदात् प्रयोजनं चापि सूत्रकृता । तच्च प्रयोजनं स्यात्, इह कर्तृश्रोतृभेदतो द्वेधा । पुनरेकैकं भवति, द्विभेदमपरं परं चेति ॥१॥ कर्त्तुरपरं प्रयोजन - मिह सत्त्वानुग्रहः परं मोक्षः । श्रोतुरपि शास्त्रतत्त्वावगमो मुक्तिश्च तत्करणात् ||२|| सम्बन्धश्च प्रकरण-मध्यगतो वाच्यवाचकाभिख्यः । इत्यभिधेयादियुते, बुद्धिमतां स्यात् प्रवृत्तिरि ॥ ३ ॥ इष्टोऽत्र वर्द्धमानः, साक्षाद्धर्मोपदेशकत्वेन । तत्तस्य नमस्करणा-च्छास्त्रादौ मङ्गलं कथितम् ॥४॥ यदुक्तं धर्म्मविधिनाम प्रकरणमेतत्तदेवार्थतो व्युत्पादयन्नाह प्रकरणम् ॥ १ ॥
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy