SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ नमः श्रीपार्श्वनाथाय ॥ न्यायाम्भोनिधिश्रीद्विजयानन्दमूरीश्वरशिष्यमहोपाध्यायश्रीविरविजयपादपद्मेभ्यो नमः ॥ श्रीमदुदयसिंहसूरिविहितवृत्तिसंवलितम् ॥ ॥श्रीमत्-श्रीप्रभसूरिकृतधर्मविधिप्रकरणम् ॥ CRORSCORICALCUS जयति जगदभयहेतुः, स श्रीवीरः पराक्रमाभ्यधिकः । यस्याद्भुतसरलतया, विततगुणः स्फुरति धर्मविधिः ॥ १॥ हतजाड्यतमा रविव-द्विपुलमहा विश्वबोधकात्मानः । ददतामनुदिनमुदयं, नाभेयोऽन्येऽपि तीर्थेशाः ॥ २ ॥ सा जीयाद् जैनी गौः, सद्वर्णालङ्कतिर्नवरसाढ्या । त्रिपदान्वितयापि यया, भुवनत्रयगोचरोऽव्यापि ॥३॥ श्रीगौतमादिगुरवो, हंसा इव चरणरागसुगतिभृतः । कृतसन्मानसवासा, विशुद्धपक्षा मुदं दद्युः ॥ ४ ॥ शून्येन मादृशापि हि, येषामेकस्वरूपिणां पुरतः । अधिकमलभ्यत गणना, नमोऽस्तु तेभ्यो निजगुरुभ्यः ॥५॥ स्तुत्वाऽभीष्टानेवं, "श्रीश्रीप्रभमूरि"भिर्विरचितस्य । श्रीधर्मविधेदृत्ति, गुरुपदेशात् करिष्येऽहम् ॥ ६ ॥ कृत्यविधावनभिज्ञः, शिशुरिव गुरुकार्यत्तिकृतचित्तः । कचित्पदे स्खलितोऽपि, स्थाप्यः सद्भिर्न हास्योऽहम् ॥७॥ यच्चायुक्तार्थमहं, मुग्धमतिर्वच्मि किश्चिदप्यत्र । पुत्रापराधवत्त-द्विबुधैर्मम सह्यतां सर्वं ॥ ८॥ *
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy