________________
कप्पियसमत्थवत्थु-प्पयाण दुल्ललियकप्पतरुकप्पो ।
सत्ताण सया धम्मो, तस्स विही भन्नए एसो ॥२॥ व्याख्या-यो धर्मः ‘सत्त्वानां' देहिनां, 'सदा' सर्वकालं 'कल्पितसमस्तवस्तुपदाने' मनोवाञ्छितार्थवितरणे दुर्ललितकल्पतरुकल्प:' सदैव दानगुणकल्पवृक्षोपमः । एतेन धर्मास्यातिशयोक्तिरुक्ता । तस्य धर्मस्य 'विधिः' कर्तव्यलक्षण एष वक्ष्यमाणो 'भण्यते' कथ्यत इति गाथार्थः ॥ २ ॥ अधुना तस्यैव धर्मविधेरुपदेशद्वाराण्याह
इह धम्मस्स परिक्खा १, लाभो २ गुण ३ दोस ४ दायगा ५ जुग्गा ६।
कइ भेया ७ फलसिद्धी ८, इय अह भणामि दाराइं ॥३॥ व्याख्या-'इहा'ऽस्मिन् धर्मविधिनाम्नि प्रकरणे, धर्मस्योक्तस्वरूपस्य 'परीक्षा' विवेचनं १ धर्मस्येति प्रत्येकमभिसम्ब- 8 न्धाद्धर्मस्य 'लाभः' सम्माप्तिः २ तथा-'गुणदोषदायका' इति, तत्र धर्मस्य गुणा अतिशयाः ३ धर्मस्य दोषा नाशहेतवः ४ है। धर्मस्य दायका गुरवः ५ गुणाश्च दोषाश्च दायकाश्चेति द्वन्दः । धर्मस्य 'योग्या' अर्हाः ६धर्मस्य कतिभेदाः-कियन्तः प्रकाराः ७ धर्मस्य 'फलसिद्धिः' फलावाप्तिः ८ इत्यमुना प्रकारेणाष्टो द्वाराणि 'भणामि' वच्मि इति गाथार्थः ॥३॥ तत्र प्रथमं तावद्धर्मपरीक्षाद्वारमधिकृत्याह
जह कणगंमि परिक्खा, कस-छेयण-ताव-ताडणेहिं सया।