Book Title: Dashvaikalik Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 9
________________ श्रीदश सम्पादकीयम् वैकालिक श्रीहारि० वृत्तियुतम् // 7 // // सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरंसंयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य इदंज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। / चतुर्दशपूर्वधरश्रीशय्यंभवसूरिवर्यःस्वपुत्रशिष्यस्याराधनायै यत्सूत्रंरचितं तद्दशवैकालिकम् / आयरियाणं बुद्धी समुप्पन्ना इमस्स थोवगं आउं, किं कायव्वंति? तं चउदसपुव्वी कम्हिवि कारणे समुप्पन्ने णिजूहति, दसपुव्वी पुण अपच्छिमो अवस्समेव णिजूहइ ममंपि इमं कारणं समुप्पन्नं, तो अहमवि णिजूहामि, ताहे आढत्तांणिजूहिउं / इत्यालम्बनेन विकाले अर्थात् तृतीयपोरूष्यांतत्रापि बह्वतिक्रान्तायां अथवा वियाले णिजूढा थोवावसेसे दिवसे उत्पन्नं तस्मात् वैकालिकम् तथा अध्ययनानां दशप्रकारत्वात् दश इति दशवैकालिकम्। अस्मिन् ग्रन्थे मुख्यतया साधूनामाचार उक्तः / चत्वारि अध्ययनानि पाठयित्वा उपस्थापना क्रियते तथा पञ्चमं पिण्डैषणाऽध्ययनमध्यापयित्वैव गोचरचर्याया अधिकारः। कहं चरे कहं चिट्टे सूत्रद्वारेण श्रामण्यमुपदर्शितं भवति / तस्मिन् सूत्रे समासतः श्रमणत्वस्य सारमुपदिष्टम् / षष्ठे महाचारकथाऽध्ययने गोचरप्रविष्टेन साधुना स्वाचारं न विस्तरतः कथयितव्य इति निरूपणमस्ति / सप्तमे वाक्यशुद्ध्यध्ययने आचारः निरवद्यवचसा कथयितव्यस्तस्मात् निरवद्यभाषा कीदृशी भवतीति निरूपणमस्ति / अष्टमे आचारप्रणिध्यध्ययने निरवयंवच आचारे प्रणिहितस्य भवतीति दर्शितम् / नवमे विनयसमाध्यध्ययने आचारे प्रणिहितो कीदृशो विनयसंपन्नोभवतीति प्ररूपितम्। दशमेसभिक्ष्वध्ययने नवस्वध्ययनेषु निरूपितार्थेषु यो व्यवस्थितःससम्यग्भिक्षुरिति प्रतिपादितम् / अन्ते इदृशोऽपि भिक्षुः कर्मपरतन्त्रत्वाद्

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 466