Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 11
________________ किञ्चित् प्रास्ताविकम् प्रशस्तौ निजकुलगणशाखागच्छगुरूणां यो नामोल्लेखोऽकारि तदाधारेण ज्ञायते यदुतैतेषां प्रश्नवाहनाभिधं कुलम्, कोटिकाभिख्यं गणम्, मध्यमाख्या शाखा, हर्षपुरीयाह्वं गच्छम्, श्री तिलके त्याह्वयाश्व गुरवः । यैर्मलधारिश्रीराजशेखरसूरिभिर्षड्दर्शनसमुच्चयः सन्धधः त एव हमे इति सम्भाव्यते । ७१० श्लोकप्रमाणकवस्तुपालप्रवन्धस्य प्रणेतृरूपेण येषां श्रीराजशेखरेति नामधेयं निर्दिष्टं जैनग्रन्थावयां dsuit एव स्युः । स प्रबन्धोऽपि प्रबन्धकोशस्यास्यान्तर्गत एव स्यात् । निश्चयस्तु तत्प्रतिविलोकनेनैव शक्यः । एभिर्मलधारिरिभिश्चतुरशीतिः कथा अपि निर्मिता इति ज्ञाम्यते- बृहद्धि पनि कागतेन निम्नलिखितेनोल्लेखेन 39 “ २४ प्रबन्धाः ८४ कथाच राजशेखरसूरिरचिताः । अथवा प्रत्यक्षे प्रमाणे सति किमनुमानेन १ । अयं चतुरशीतिकथात्मक ग्रन्थः प्रसिद्धिं नतिः पण्डितश्रावकहीरालालहंसराजनाम महाशयैर्वैक्रमीयान्दे १९६९ तमे । १ एतनामोल्लेखो मङ्गलाचरणरूपेण रचितस्य पद्यपञ्चकस्य प्रान्तेऽध्यवलोक्यते । आद्ये पयचतुष्के तु श्रीऋषभ नेमि पार्श्व-वीरेतितीर्थकरचतुष्टयस्य वन्दनं विहितमाचार्यवर्यैः । २ अस्याद्यं पद्यमित्थम् " नत्वा मिजगुरून् भक्त्या, स्मृत्वा वाङ्मयदेवताम् । सर्वदर्शनवक्तव्यं, वक्ति श्री राजशेखरः || १ || अन्तिमं तु यथा— " बाकावबोधनकृते 'मलधारि' सूरि : श्री राजशेखर इति प्रथमानबुद्धिः । सम्यग् गुरोरधिगतोत्तमतर्कशास्त्र: षड्दर्शनीमिति मनाक् कथयाम्बभूव ॥ १८० ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 322