________________
किञ्चित् प्रास्ताविकम्
प्रशस्तौ निजकुलगणशाखागच्छगुरूणां यो नामोल्लेखोऽकारि तदाधारेण ज्ञायते यदुतैतेषां प्रश्नवाहनाभिधं कुलम्, कोटिकाभिख्यं गणम्, मध्यमाख्या शाखा, हर्षपुरीयाह्वं गच्छम्, श्री तिलके त्याह्वयाश्व गुरवः ।
यैर्मलधारिश्रीराजशेखरसूरिभिर्षड्दर्शनसमुच्चयः सन्धधः त एव हमे इति सम्भाव्यते । ७१० श्लोकप्रमाणकवस्तुपालप्रवन्धस्य प्रणेतृरूपेण येषां श्रीराजशेखरेति नामधेयं निर्दिष्टं जैनग्रन्थावयां dsuit एव स्युः । स प्रबन्धोऽपि प्रबन्धकोशस्यास्यान्तर्गत एव स्यात् । निश्चयस्तु तत्प्रतिविलोकनेनैव शक्यः । एभिर्मलधारिरिभिश्चतुरशीतिः कथा अपि निर्मिता इति ज्ञाम्यते- बृहद्धि पनि कागतेन निम्नलिखितेनोल्लेखेन
39
“ २४ प्रबन्धाः ८४ कथाच राजशेखरसूरिरचिताः । अथवा प्रत्यक्षे प्रमाणे सति किमनुमानेन १ । अयं चतुरशीतिकथात्मक ग्रन्थः प्रसिद्धिं नतिः पण्डितश्रावकहीरालालहंसराजनाम महाशयैर्वैक्रमीयान्दे १९६९ तमे ।
१ एतनामोल्लेखो मङ्गलाचरणरूपेण रचितस्य पद्यपञ्चकस्य प्रान्तेऽध्यवलोक्यते । आद्ये पयचतुष्के तु श्रीऋषभ नेमि पार्श्व-वीरेतितीर्थकरचतुष्टयस्य वन्दनं विहितमाचार्यवर्यैः ।
२ अस्याद्यं पद्यमित्थम्
" नत्वा मिजगुरून् भक्त्या, स्मृत्वा वाङ्मयदेवताम् । सर्वदर्शनवक्तव्यं, वक्ति श्री राजशेखरः || १ ||
अन्तिमं तु यथा—
" बाकावबोधनकृते 'मलधारि' सूरि :
श्री राजशेखर इति प्रथमानबुद्धिः । सम्यग् गुरोरधिगतोत्तमतर्कशास्त्र:
षड्दर्शनीमिति मनाक् कथयाम्बभूव ॥ १८० ॥