________________
किञ्चित् पास्ताविकम् स्थाद्वादकलिकाकारोऽपि नाम्ना राजशेखरा इति जैनप्रन्थावल्यां निर्देशः। एतत्प्रणयनसमयः १२१४तमो वैक्रमयिान्द इति तत्र सूचितम् । अनेनानुमीयते यदुतैते न प्रस्तुताः । किश्च कर्पूरमञ्जरी-काव्यमीमांसा-बालभारत-बालरामायण-विद्धशालभञ्जिकाप्रणेतारो राजशेखरा अप्येभ्यो मलधारिसूरिभ्यो भिन्ना एव ।
लुङ( Aorist)प्रयोगप्रचुरस्यास्य प्रबन्धकोशस्य संशोधनकार्ये साधनीभूतं पुस्तकचतुष्टयम्। तत्र क-सञ्ज्ञकं पुण्यपत्तनस्थप्राच्यविद्यासंशोधनमन्दिरसत्कं हस्तलिखितम्, ख-घ-सञ्ज्ञात्मके मुम्बापुर्या रायल्एशियाटिक्सोसायटिसत्के हस्तलिखिते, ग-सज्ञि तु श्रीहेमचन्द्राचार्यग्रन्थावल्यां विंशतितमाङ्करूपेण प्रसिद्धि नीतम् । एतसिन् पुस्तकचतुष्के क-ख-सञ्ज्ञयोः प्रायः परस्परा पाठसदृशता दरीदृश्यते, ग-घ-सञ्जयोरपि च तथाविधता। घ-सञ्ज्ञा हस्तलिखिता प्रतिः शेषापेक्षया शुद्धतमा, परन्तु न चैतस्था एवाधारेण संशोधनं शक्यम् । किञ्च पुस्तकचतुष्टये प्राप्तेऽपि कतिचन स्थलानि सन्देहास्पदानि सन्ति ।
अस्य सम्पादनविधावनुगृहीतोऽसि महाशयैस्त्रिभिः । तत्र १३६तमानां पृष्ठानां द्वितीयवेलाशोधनपत्राणामेकस्या प्रतेः समीक्षणेनोपकृतोऽहं दक्षिणविहारिमुनिवर्यश्रीअमरविजयशिष्यरत्नमुनिश्रीचतुरविजयैः सम्पूर्णस्य ग्रन्थस्य मुद्रणवेलाशोधनपत्राणां तु डॉ. वासुदेवराव गोपालराव पराञ्जपे एम्. ए., एल्एल्. बी. इत्येभिर्महानुभावैः । अपरश्चाहमृणीकृतः श्रीफारसगुजरातीसभया यया जैनसाहित्यप्रचारकार्ये सुयोगः समर्पितो मह्यम् ।
एवं यथासाधनं सम्पादितो विषमस्थानेषु टिप्पनकैविशिष्टपरिशिष्टैश्च समलड़तोऽयं ग्रन्थः सायन्तः समीक्ष्यतां समीक्षकः ।