Book Title: Chaturvinshati Jin Stavanam
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ September-2003 (१८) मदपदसम्पदमन्दसुनन्दज्जनपदकुरुगजपुरनगर, नवनिधिरत्त्रचतुर्दशलक्ष्मीहरिकरिरथनरबलकलितम् । पदलुलिताखिलभूपतिराज्यं करतलगतमपि चपलमिदं, सपदि विहाय ललौ व्रतमुग्रं य इह तमरमभिसर शरणम् ॥१८॥ चपलं ॥ (१९) मनसिजहव्यवाहमुरुदाहकरं जगदङ्गिनां समवलोक्य विभुदधदुपकारसारमवतारविधिकृपयांचितोकमिषतः प्रदधौ । पदपुरतोयकस्तदुपशान्तिकृते घनसम्भृतं शमसुधाकलशं, प्रदिशतु मोक्षसौख्यकमलाममलामिह मल्लितीर्थपतिरेष मम ||१९|| सुधाकलश ॥ (२०) स्व:सन्मालाचित्रमासूत्रयती जनमनसि निरुपमं केवलोत्पत्तिकाले, त्रिप्राकारी यस्य चक्रेऽतिभक्त्या रजतकनकसुमणिश्रेणिभि: सुप्रभाभिः । देवी पद्माश्रीसुमित्राङ्गजन्मा यदुकुलकमलरविर्ध्वस्तमोहान्धकारः, पुण्यांकुराम्भोधरासारसारः स दिशतु शिवकमलां सुव्रताधीश्वरो मे ॥२०॥ मालाचित्र ॥ (२१) तनोतु मे मनोमतं ततं युतं सुमङ्गलैः कलैर्जिनाधिनायको नमिः सदा, यदीयधर्म्मदेशना सभासु भान्तिसौरभातिलोभलीनलोलषट्पदांगनाः । सुरावली विकीर्णपञ्चवर्णजानुदघ्नपुष्पसञ्चयाः स्वनाशशंकया रयात्, पलाद्यनङ्गशेखरान् महीतलं विसंस्थलं गताश्च्युता इव ध्रुवं पुरः प्रभो ! ||२१|| अनंगशेखर ॥ (२२) श्रीनेमिनाथ नमन्नाकिनाथं स्तुवे तं सनाथं सदा केवलक्षीमहानन्दमन्दैः, सौभाग्यभाग्याधिके यत्र सम्मोहनै राजराजीमतीवाक्यनेत्रभ्रमैस्तीक्ष्णतीक्ष्णैः । 57 सार्द्धं जगज्जन्तुजीवातुमर्माविधाविद्धविश्वंभरेशाने वेद्योमुखानेकवेधो, विधं विधातुं न शक्ता विमुक्ता अपि स्वेच्छया Jain Education International कामबाणा यथा पद्मपत्राणि वजे ॥२२॥ कामबाणा || For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6