________________
September-2003
(१८) मदपदसम्पदमन्दसुनन्दज्जनपदकुरुगजपुरनगर, नवनिधिरत्त्रचतुर्दशलक्ष्मीहरिकरिरथनरबलकलितम् । पदलुलिताखिलभूपतिराज्यं करतलगतमपि चपलमिदं, सपदि विहाय ललौ व्रतमुग्रं य इह तमरमभिसर शरणम् ॥१८॥ चपलं ॥
(१९) मनसिजहव्यवाहमुरुदाहकरं जगदङ्गिनां समवलोक्य विभुदधदुपकारसारमवतारविधिकृपयांचितोकमिषतः प्रदधौ । पदपुरतोयकस्तदुपशान्तिकृते घनसम्भृतं शमसुधाकलशं, प्रदिशतु मोक्षसौख्यकमलाममलामिह मल्लितीर्थपतिरेष मम ||१९|| सुधाकलश ॥ (२०) स्व:सन्मालाचित्रमासूत्रयती जनमनसि निरुपमं केवलोत्पत्तिकाले, त्रिप्राकारी यस्य चक्रेऽतिभक्त्या रजतकनकसुमणिश्रेणिभि: सुप्रभाभिः । देवी पद्माश्रीसुमित्राङ्गजन्मा यदुकुलकमलरविर्ध्वस्तमोहान्धकारः, पुण्यांकुराम्भोधरासारसारः स दिशतु शिवकमलां सुव्रताधीश्वरो मे ॥२०॥ मालाचित्र ॥
(२१) तनोतु मे मनोमतं ततं युतं सुमङ्गलैः कलैर्जिनाधिनायको नमिः सदा, यदीयधर्म्मदेशना सभासु भान्तिसौरभातिलोभलीनलोलषट्पदांगनाः । सुरावली विकीर्णपञ्चवर्णजानुदघ्नपुष्पसञ्चयाः स्वनाशशंकया रयात्, पलाद्यनङ्गशेखरान् महीतलं विसंस्थलं गताश्च्युता इव ध्रुवं पुरः प्रभो ! ||२१|| अनंगशेखर ॥
(२२) श्रीनेमिनाथ नमन्नाकिनाथं स्तुवे तं सनाथं सदा केवलक्षीमहानन्दमन्दैः,
सौभाग्यभाग्याधिके यत्र सम्मोहनै राजराजीमतीवाक्यनेत्रभ्रमैस्तीक्ष्णतीक्ष्णैः ।
57
सार्द्धं जगज्जन्तुजीवातुमर्माविधाविद्धविश्वंभरेशाने वेद्योमुखानेकवेधो,
विधं विधातुं न शक्ता विमुक्ता अपि स्वेच्छया
Jain Education International
कामबाणा यथा पद्मपत्राणि वजे ॥२२॥ कामबाणा ||
For Private & Personal Use Only
www.jainelibrary.org