________________
56
अनुसंधान-२५
(१२) आस्थानं फणिनां फणेषु ललितं बभ्रोरुरभ्रस्य च,
ध्राणं व्याघ्रविशालवस्त्रविवरे जृम्भासरं बिभ्रति । यत्रानन्दकरं करेणुकरिणां शार्दूलविक्रीडितं तां श्रीधर्मसभां श्रयामि सततं श्रीवासुपूज्यप्रभुः(भोः) ॥१२॥
शार्दूलविक्रीडित ॥ विमलाधीश्वरनन्दनंदजगदानन्देन्दिरासुन्दरं, त्वयि भूमीवलयं विहारविधिभिः पूतान्तरं कुर्व्वति । सकलोपद्रवडम्बरा अपि खराः प्रापुः प्रणाशं क्षणा
दथवा श्वैरविहारिणी क्व नु हरौ मत्तेभविक्रीडितम् ॥१३||मत्तेभविक्रीडितं ।। (१४) जन्मस्नात्रं पवित्रं सुरगिरिशिखरे यस्य कर्तुं महद्धा,
त्रैलोक्याधीशलोके कृतमहसि परालङ्कृतीः सर्वनारी: । दृष्ट्वा नक्षत्रदम्भादपि गगनरमामौक्तिकस्नग्धरा तं पञ्चानन्तकेन्द्रं भजत भवभृतो भावतोऽनन्तदेवम् ॥१४॥ स्नग्धरा । जनको जज्ञेऽवनीशस्तिमिरितजगती पावना लोकभानुः, समधर्माचारचञ्चुर्गुणसुमणिमहास्त्रग्धरासुव्रताम्बा । उपदेशो यस्य पापोपशमशमचणो जन्तुरक्षादिरूपै, रमणीयस्तं नमामि प्रमुदितमनसा सान्वयं धर्मनाथम् ॥१५||महास्नग्धरा ।। क्षमाधरशिरः स्फुरन्महमविश्वसेनाङ्गभूधर्मचक्रोत्तरः, पदाब्जतलसंवरन्नवसुवर्णपद्मागुरुकसन्निभश्रीभरः । प्रभासवरदामयुग् रुचिररत्नवृन्दारकः श्रेणिसेव्यक्रमः, सुखानि मम षोडशो दिशतु शान्तिरर्हन्सदा पंचमश्चक्रभृत् ॥१॥
वृन्दारकः।। (१७) यदपि भवति चक्रिपद्मापि पादाब्जलग्नाचिरं सादरं देहिनां,
तदपि चरणमोचनं नैव कुर्बन्ति सन्तो जनास्तेन मन्ये ध्रुवम् । शरदिजन च मेघमाला बलां तां पराकृत्य य: स्वीचकार प्रभुश्चरणमचलकेवलानन्दमन्दायतं कुन्थुनाथं स्तुवे भावत: ॥१७।।
मेघमाला ।।
(१६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org