Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ ४ कुलकवृत्तिः चैत्यवन्दन-माश्रीशत्रुजयक्षितिधरशिखरशेखरानुकारश्रीमन्मानतुंगविहारशृंगारहारप्रकारश्रीयुगादिजिनेश्वरभास्वरबिम्बप्रमुखाईद्विम्बकदम्बकप्रतिष्ठाविधान- | मङ्गलम्. संपन्नसमुच्छलन्मरालपक्षबलक्षकीर्त्तिकुसुमोत्तंसितदिग्वधूत्तमाङ्गाः त्रिभुवनजनसुभगं भावुकानेकप्रविवेकज्ञानदर्शनचारित्रौदार्यसौदर्यस्थैर्यधैर्यगाम्भीर्यार्जवाद्यगण्यवरेण्यगुणगणान्वितरत्नराशिशृंगारिताङ्गा निरन्तरानवद्यत्रैविद्याभ्यासविलासविशदायमानासमानमनीषाप्रकर्षतिरस्कृतभूरिसूरयः श्रीजिनकुशलसूरयः स्वपरोपकाराय श्रीदेववन्दनकुलकविवृति चिकीर्षवः शिष्टसमाचारपरिपालनार्थ निर्विघ्नसकलशास्त्रसमाप्त्यर्थ च वर्तमानतीर्थाधिपतितया श्रीमहावीरनमस्कारं श्लेषोक्त्या प्रचक्रुः "संस्तौमि श्रीमहावीरं, जिनं कामप्रवर्द्धनम् । सुदर्शन रमास्पर्शविनिर्मिततमोऽसनम्" ॥१॥ श्रिया समवसरणादिमहार्योपलक्षितं, श्रीमहावीरं वर्द्धमानस्वामिनं, सं सम्यक् सावधानमनोवचनकायः,IN ४ास्तौमि श्लाघे, किंविशिष्टं 'जिन' रागाद्यान्तरवैरिवारविजेतारं, पुनः कीदृशं 'कामप्रवर्द्धन' कामोऽभिलाषस्तस्य प्रकर्षेण वर्द्धनं पूरक-18 मित्यर्थः । यद्वा कामं कन्दर्प प्रवर्द्धयति छिनत्तीति कामप्रवर्द्धनस्तं तथा, पुनः कीदृशं 'सुदर्शनेति' शोभनं दर्शनं सम्यक्त्वं सुदर्शनं । तस्य, रमा लक्ष्मीस्तस्याः स्पर्श आश्रयणं तेन विनिर्मितं कृतं तमसोऽज्ञानस्यासनं क्षेपणं येन स तथा तं, श्रद्धानरूपसम्यक्त्वसंपत्कृताज्ञा ननिरासमित्यर्थः । द्वितीयपक्षे जिनं नारायणं, कीदृशं श्रीमहावीरं श्रिया सिन्धुकन्ययोपलक्षितो महावीरो महासुभटस्तं, पुनः कीदृशं & कामप्रवर्द्धनं कामस्य कन्दर्पस्य प्रवर्द्धनं प्रवृद्धिकारक, लोके हि कृष्णतनयः काम इति प्रसिद्धिः, पुनः कीदृशं सुदर्शनेति, सुदर्शनं नाम चक्रं तस्य रमा श्रीस्तस्याः स्पर्शेन विनिर्मितं तमसो राहोरसनं शरीरच्छेदलक्षणं क्षपणं येन स तथा तम् , इयं हि पुराणवार्ता पुरा पुण्ड|रीकाक्षे नवसंख्यपीयूषकुण्डरक्षणाध्यक्षे सति गुप्तवृत्त्याऽऽगत्य राहुः पीयूषपानमाधाय व्याजुघोट तस्य गच्छतो लब्धशुद्धिः शृंगी सुदर्श* नचक्रेण शिर:कमलं चकत्तेति श्लोकार्थः॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 276