Book Title: Chaityavandan Kulakam
Author(s): Jinduttasuri, Jinkushalsuri, Labdhvijay Gani
Publisher: Jinduttasuri Prachin Pustakoddhar Fund
View full book text ________________
भारसौरभोद्गारभासुरैः। पुन्नागैः पुरवत्कान्तं, कान्तारं काऽप्यराजत ॥१॥ मृगारिहतवन्येभकुम्भविस्रस्तमौक्तिकैः । यस्मिंस्तिलकिता भूमिर्वेश्यावद् भाति भोगिनी ॥२॥ शिवाफेत्कारविस्तारिप्रतिखरभृतो गुहाः। यत्र ढक्का मृगेन्द्राणां, वाद्यमाना इवाबभुः ॥३॥ मत्ताङ्गा यत्र मातङ्गा निघ्नतो महतस्तरून् । कथयामासुरसतां, महत्त्वस्यातिनिन्द्यताम् ॥४॥ शार्दूलदीर्णसारङ्गकस्तूरीसौरभस्पृशः । पैटवासं पथिकानामादधुर्यत्र मारुताः॥५॥ पञ्चभिः कुलकम् ॥ विचित्रास्तत्र गोमायुप्रमुखाः प्राणिनः सुखम् । अध्यूषुः खेलनजुषो हर्येषु मनुजा इव ॥६॥ तान्यदा दारुणतापभीष्मो ग्रीष्मर्तुरास्थां कलयांचकार । अजस्रलूकानिलवातशुष्कतडागवापीनदवारिवारः॥७॥ खेदोदबिन्दुसंदोहदम्भाद्यताम्बुशोषणे। कृतसन्ध इवाङ्गेभ्यः सूर्योऽम्भो नि। १ क्वापि कस्मिन्नपि भूभागे कान्तारं वनं पुरमिव रेजे, कीदृशं वनं पुन्नागैर्वृक्षविशेषैः कान्तं मनोज्ञं । पुरं तु पुन्नागैः पुरुषवरैः कान्तं, कीदृशैः पुन्नागैः शिरःस्थति, शिरस्थश्चासौ पुष्पसंभारश्च पुष्पसमूहश्च तस्य सौरभोद्गारः सौरभप्रसरस्तेन भासुरैः शोभमानैरित्यर्थः ।। २ मृगारयः सिंहास्तैर्हता ये वन्या वनोद्भवा इभा हस्तिनस्तेषां कुम्भास्तेभ्यो विस्रस्तानि पतितानि यानि मौक्तिकानि तैस्तिलकिता संजाततिलका भूर्यस्मिन् वने वेश्यावत् शुभा कीदृशी भूः भोगिनः सर्पास्तत्सङ्गिनी वेश्यापि तिलकशोभिता भवति, तथा भोगिनो भोगवन्तो ये नरास्तत्सङ्गिनी भवतीत्यर्थः। ३ पटवासमिति, पटवासः पटसौरभ्यमित्यर्थः । ४ गोमायुप्रमुखा इति शृगालप्रमुखाः । ५ अध्यषुरिति । वासं चक्रुः । ६ तत्रान्यदा आस्थामिति स्थितिं कलयांचकार रचयामास । अजस्रति, अजनं सन्ततं यल्लुकानिलस्य वातान्तेन शुष्कस्तडागवापीनदीवारीणां वारः समूहो यत्र स तथा । ७ कृतसन्धः कृतप्रतिज्ञः।
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 276