Book Title: Bhavsthiti Part 01
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
"
मवस्थिति: ] स्वोपज्ञ प्रेमप्रभावृत्तिपरिकलिता मवस्थितिः [५ (प्रे० ) "पढमाइग०" इत्यावि, प्रथम प्रावो येषां ते प्रथमादिकाः, "शेषाद्वा" (सि०७-३-१७५) इत्यनेन समासान्तः कचप्रत्ययः, ते च ते निरयाश्च प्रथमादिकनिरयास्तेषां रत्नप्रभा - शर्कराप्रभा वालुकाप्रभा• प्रङ्कप्रभा - धूमप्रमा-तमः प्रमा-महातमः प्रभासंज्ञक -- सप्तपृथ्वीगतानां सप्तनैरयिकभेदानां 'क्रमशः' क्रमेणैकः, चकारः पादपूयै, एवमग्रे ऽपि श्रयः सप्त दश सप्तदश द्वाविंशतिस्त्रयस्त्रिशत् ' सागराः 'पदैकदेशे ऽपि पदसमुदायोपचारात्सागरोपमाः 'ज्ञेया" प्रकृतत्वादुत्कृष्ट भवस्थितिरवसातव्या । किमुक्तं भवित- प्रथमरत्नप्रभाभिधपृथ्वीनरकस्योत्कृष्ट मवस्थितिरेकः सागरोपमः "अर्थवशाद्वचनविपरिणामः" इति न्यायादिह बहुवचनान्त: सागरोपमशब्द एकवचनान्तत्वेन विपरिणतः । द्वितीयशर्कराप्रमाख्यपृथिवीमारकस्य त्रीणि सागरोपमाः, तृतीय वालुकाप्रभा पृथ्वीने रयिकस्य सप्त सागरोपमाः, चतुर्थपङ्कप्रभासंज्ञकपृथिवीनिरयस्य दश सागरोपमाः, पञ्चमधूम प्रभाभिख्यपृथ्वीनारकस्य सप्तदश सागरोपमाः, षष्ठतमः प्रभानामक पृथिवीनं रयिकस्य द्वाविंशतिः सागरोपमाः, सप्तममहातमः प्रभानामधेयपृथ्वीनिरयस्य त्रयस्त्रित्सागरोपमाः, ततो ऽधिककालस्या ऽनवस्थानात् ।
तथा च पतिपादिता प्रथमादिनिरयाणामुत्कृष्टा भवस्थितिर्जीव समासे
" एगं च तिनि सत य, दस सत्तरसेव हु ति बावीसा | तेत्तीस दहिनामा, पुढवीसु ठिई कमुक्कोसा ॥ २०२॥” इति । तथा वाचक मुख्यैस्तच्वार्थ सूत्रे ऽपि - " तेष्वेक-त्रि-सप्त- दश- सप्तदश - द्वाविंशनि-त्रयस्त्रिंशत्सागरोपमा सत्वानां परा स्थितिः । " इति । प्रत्र 'तेषु' इतिपदेन रत्नप्रभाख्यप्रथमपृथ्व्यादिनरकेष्विति बोध्यम् । एवमन्यत्र पञ्चसंग्रह - बृहत्संग्रहणी प्रमुख ग्रन्थेष्वपि गविताऽस्ति ।

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68